________________
"
२५६ • मङ्गलकलशकथानकम् स्वकीयां मुद्रिकां ददौ । सा कलाचार्यमवोचदेतन्मध्यात् कथानकं यो छात्रो जानाति स आख्यातु । सर्वैः छात्रैरीर्षया मङ्गलो निर्दिष्टः । स उपाध्यायगिरा वक्तुं प्रचक्रमे । तेनोक्तं- 'चरितं कथयामि ? किं कथानकं कथयामि ? ।' सा अवदत् - 'कल्पितेन पर्याप्तं भो ! चरितं ब्रूहि ।' मङ्गलश्चिन्तयामास - 'सेयं त्रैलोक्यसुन्दरी या मया चम्पापुर्यां भाटकेन परिणीता, पुंवेषधारणी केनापि हेतुना भूत्वाऽत्रागात् । तावदहं निजां कथां कथयामि यावदमात्येन गृहान्निष्कासितः ।' तेन सर्वाप्यात्मकथा प्रकाशिता । अत्रान्तरे राजसुतयाऽलीककोपः कृतः 'भो सुभटाः ! अमुं पुरुषं गृह्णीत गृह्णीत' इत्युक्ते शीघ्रं गृहान्तरं आनीय नृपपुत्री मङ्गलं सिंहासनेऽध्यास्य सिंह - सामन्तमूचे - 'अयं मम भर्त्ता किमत्र कर्तुं युज्यते ?' तेन कथितं यत्नेन रक्षणीयं, पुंवेषं मुक्त्वा स्त्रीवेषमकारी । ततः युग्मं श्रेष्ठीनः गृहे ययौ । पार्थिवोपि तद्वृत्तं श्रुत्वा विस्मयं प्राप । मङ्गलस्त्रैलोक्यसुन्दर्या सह भोगान् विललास । सिंहः पुरुषवेषं लात्वा चम्पापुरीं ययौ । जगतीपतेः सर्ववृत्तान्तं कथितम् । राजाऽचिन्तयत्'दुष्टेनाऽमात्येन अदोषा मत्पुत्री सदोषा विहिता ।' भूपतिः पुनरपि सिंहमुज्जयिन्यां प्रेष्य सकान्तं मङ्गलमानाय्य । यथाविधि सच्चक्रे । महीभुजममात्यमार्यमाणं गाढाऽभ्यर्थनया मङ्गलो मन्त्रीं मोचयामास । रे पापिन् ! जामातुरुपरोधेन मया मुक्तोऽसि ।' [ इत्युक्त्वा सः राज्ञा ] पुरान्निर्वासितः । अपुत्रः भूपालः जामातरं सुतं मेने । तन्मातापितरौ तत्रैव आनाययामास । अनेद्युः नरपतिः मङ्गलकलसं राज्ये संस्थाप्य यशोभद्रसूरिसमीपे परिव्रज्यामुपाददे । मङ्गलस्य राज्यं पालयतः सतस्त्रैलोक्यसुन्दर्या पत्न्या जयशेखरः सुतोऽभूत् । राजाऽनेकशो
1
Jain Education International
Cibyaq
For Personal & Private Use Only
www.jainelibrary.org