________________
श्रीहंसचन्द्रशिष्यविरचितम् • २५५ कष्टे वर्तते, तस्याः सन्मानदानादि दूरे, वाक्य श्रवणमात्रेणालापनं विधीयतां ।' अश्रुपूर्णाक्षः पार्थिवोऽब्रवीत्-'भो सिंह ! अनया पुरा दुःकृतं विहितं, गाढमस्माकमनिष्टतां प्राप्ता, अनया यत्किञ्चिद् विवक्षितमस्ति तद् ब्रवीतु ।' त्रैलोक्यसुन्दरी उवाच-तात ! कुमारोचितं पुरुषवेषमर्पय ।' राजा सिंहमुवाच-'केनचिद् गुरुकार्येण पुंवेषं याचितेऽस्मै दातव्यः ।' पार्थिवः पुंवेषं ददौ । सुन्दरी अभ्यधात्-'तात ! चेत् तवाज्ञा भवेत् गरीयसा कारणेन उज्जयिन्यां यामि ।' तद्रक्षणार्थं बलान्वितं सिंहमादिदेश । राजाऽवोचत्-'पुत्रिके ! मम वंशस्य दूषणं नाऽभ्येति त्वया तदेव कार्य'मित्युक्त्वा महीभुजा विसृष्टा । सा सिंहसामन्तसमन्विता अखण्डप्रयाणैरुज्जयिनी पुरीं ययौ ।।
वैरसिंहः नृपः जनतामुखादेवं शुश्राव यच्चम्पायाः नृपनन्दनोऽत्र समागच्छन्नऽस्ति । स्वागतप्रश्नपूर्वकं पुरे प्रवेश्य निजमन्दिरं नीतः । आगमनार्थं पृष्टः । सो राजानं प्रोवाच-'कुतुहलादिना नगरीं द्रष्टुमागतोस्मि ।' नरेन्द्रेण प्रोक्तं–'त्वया ममौकसि स्थेयम् । सुरसुन्दरराज्ञो ममाऽन्तरं न ।' सा राज्ञा ढौकितगृहे तस्थौ । अन्यदा नीरपानार्थं गच्छतः तान् अश्वान् [निरीक्ष्य] नृपपुत्री दध्यौ । एते तुरङ्गमा मम तातस्य सत्काः । त्रैलोक्यसुन्दरी भर्तुः गृहाभिधानादिसर्वशुद्धिं [विवेद्य तं च] ज्ञानाभ्यासपरं ज्ञात्वा सिंहमुवाच-'एते तुरङ्गमाः कथं ग्राह्याः ?' सिंहोऽवादीत्-'सच्छात्रकलाचार्यं भोजनाय आमन्त्रय ।' उपाध्याये भोजनार्थं तत्रायाते सा छात्रमध्ये हृदयानन्ददायिनं स्वभर्तारं ददर्श । तस्यात्मीयमासनं स्थालं च अदापयत् । विशेषेण भोजनादिषु गौरवमकारयत् ततो सर्वेभ्यो यथायुक्तं वस्त्राणि ददौ, मङ्गलस्य मनोहरां
Asxao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org