________________
२५४ • मङ्गलकलशकथानकम् यतः-माणुस्स चिंतइ अन्नं, अन्नं पुण होई दैवजोगेणं ।
मणसा जं न चिंतिज्जइ, तं तं करेई विहुविउण ।।१।। अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते ।
विधिरेव तानि कुरुते, यानि पुमान्नैव चिन्तयति ॥२॥ राजा प्रोवाच-'हे मन्त्रिन् ! दुःखस्य कारणं निवेदय ।' सचिवो निःश्वस्योचे- 'देव ! यद् दैवः करोति तद् वक्तुमपि नाशक्यमश्रद्धेयं शृण्वतां तव पुत्री मत्पुत्रस्य दत्ता, तस्यां परिणीतायां यज्जातं तन्निशम्यतां, देवकुमारशदृशः मम पुत्रस्तव पुत्रीस्पर्शेन कुष्टरोगैः व्याप्तः ।' तदाकर्ण्य राजा दध्यौ–'नूनं मम नन्दनी अलक्षणा । स्वकर्मपरिणामेनाऽस्य पुत्रः कुष्ठिः जज्ञे ।' यतः- कृतकर्मक्षयो नास्ति० __ अमात्य उवाच-'स्वामिन् ! भवतामत्र को दोषो ? मत्कर्मणां दोषः ।' मन्त्री स्वगृहं ययौ । सा त्रैलोक्यसुन्दरी राज्ञः परिजनस्य च ईष्टाप्यऽनिष्टा सञ्जाता । कोप्येनां नाललाप । एकत्र गुप्तगृहे स्थिता । स्वदुःकर्म अचिन्तयत्-'मया पुरा किं विहितं ? येन मे पति ष्ट्वा क्वापि गतः, अन्यच्च लोकमध्ये कलङ्कं समुपस्थितम् । व्यसने पतितां किं करोमि ? क्व गच्छामि ?' एवं जल्पन्त्यास्तस्याश्चित्ते स्थितं-'नूनं स मे पतिरुज्जयिनीपुर्यां प्राप्तः, मोदकं भुक्त्वा तेन जल्पितं "एते हि मोदका रम्याः, कित्ववन्त्या जलोचिता ।" [अजितप्रभसूरिकृते शां० चरित्रे-१-२१८] केनाप्युपायेन यद्यहं तत्र गच्छामि, तदाऽस्य मिलित्वाऽसुखभागिनी भवामि ।' अन्येधुरम्बामुवाच-हे मात ! मम जनक यद्येकवारं वाक्यं शृणोति तथा त्वं कुरु ।' तया सिंहनामकं सामान्तं ज्ञापयामास । सो राजकुले गत्वा राजानमुवाच-'हे नरनाथ ! भवतां मान्या त्रैलोक्यसुन्दरी
Asya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org