________________
श्रीहंसचन्द्रशिष्यविरचितम् • २५३ इतश्च तस्य पितरौ तमन्विष्य विलप्य च बहुभिर्दिनैः गतशोकौ बभूवतुः । श्रेष्ठी तं रथारूढं गृहाभिमुखमायान्तं विलोक्य बभाषे-'हे राजपुत्रं ! पूरातनमार्गत्यक्वा किमभिनवमार्गं करोसि ? स निषिद्धमानोऽपि यावन्न विरराम रथात् तावत् समुत्तीर्य पितुः पादौ ननाम । हर्षाश्रुपुरप्लावितेक्षणं ताभ्यां समुपलक्षितः । उपविष्टः सन् पप्रच्छ-'वत्स ! ईदृशी ऋद्धि कुतः ? इयत्कालं तव क्व गतम् ? । आकाशवाणी-अपहारादिस्वस्थानागमनावधिकथा पितुरग्रे निवेदिता ।
अहो ! पुत्रस्य सौभग्यं, अहो ! पुत्रस्य दक्षता । अहो धैर्यमहोभाग्यमिति प्राशंसतामिमौ ॥१॥
[अजितप्रभसूरिकृते शां० चरित्रे-१-१८९] अश्वानारक्षणार्थं प्राकारसंयुक्तं स्वगृहमकारयत् श्रेष्ठी । मङ्गलः अन्यदा जनकं प्राह-'तात ! त्वदाज्ञया अद्यापि कलागमं सम्पूर्णं करिष्यामि ।' पित्राऽनुमतः सन् कलाचार्यस्य सन्निधौ कलाभ्यासमसौ चकार ।
इतश्च मन्त्रिणा रात्रौ निजसुतो मङ्गलवेषभृत् वासभवने वधूसमीपे प्रेषितः । त्रैलोक्यसुन्दरी तं शय्यारूढं दृष्ट्वा दध्यौ-'कोऽयं कुष्ठाभिभूतसरीर: रभसादिह समायातः ?' स्पर्शकर्तुमुद्यतेऽस्मिन् सा शय्यायाः समुत्थाय भुवनाद् बहिर्निर्ययौ । दासीभिः भणिता । 'स्वामिनी ! ससंभ्रान्ता किमसि ?' 'देवतारूपी मम पति क्वापि गतः कोऽपि कुष्ठिको विद्यते ।' दासीभिर्गत्वा विलोकित: । दृष्टः कुष्ठिकपुरुषः । सा अतिदुःखेन रात्रिमतिवाह्य प्रातः पितृगृहं ययौ । सुबुद्धिरपि दुर्बुद्धिर्मन्त्री श्याममुखो महीपतिसमीपे समायातः पृथिवीपतिरेनमभाषत-'हर्षस्थाने कथं विषादः?' सः जगाद-'हे महाराज ! कर्मणां विचित्रा गतिः, मन्दभाग्योऽहं जीवोऽन्यथा चिन्तयति, विधिः कार्यमन्यथा कुरुते ।'
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org