________________
२५२ . मङ्गलकलशकथानकम् प्रथमे मङ्गले धराधिपोऽनेकशश्चारु वस्त्राणि ददौ, द्वितीये मालाभरणसञ्चयं, तृतीये मणिहेमादि, चतुर्थे रथादिकं ददौ । तयोः जायापत्योरित्थं पाणिग्रहोत्सवो जज्ञे । वरो वधूहस्तं न मुञ्चति । नृपतिः भूयः उवाच'वत्स ! तव किं यच्छामि ?' तेन जात्यघोटकपञ्चकं याचितम् । तत् तस्मै दत्तं । मन्त्रिणा तूर्यवाद्यमाने सः वध्वा सह स्वगृहे नीतवान् अमात्यश्छन्नं छन्नमभाषत 'अयं वैदेशिको नरोऽद्यापि न निर्वास्यते ।' सा त्रैलोक्यसुन्दरी इङ्गीतैः निजपतिं चलचित्तं ज्ञात्वा क्षणमपि तस्य समीपं नैवाऽमुचत् । ततोऽसौ क्षणान्तरे जलपात्रं गृहीत्वा देहचिन्तार्थमुत्थितः । सा तदनुगच्छत् । प्रीयं रहस्थितमुवाच । 'हे कान्त ! क्षुधा तव किं बाधते ?' तस्मिन्नामेति भणिते स्वगृहाद् दासीहस्तेन [आनाय्य] मोदकान् तस्मै ददौ । तेषु भुक्तेषु पाणियं पित्वा तेन भाषितं-'अहो ! रम्यतराः एते सिंहकेसराः मोदकाः
ऊज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यते यदि । तदा तृप्तिर्भवेन्नूनं, मोदकेष्वशितेष्वपि ॥१॥
[अजितप्रभसूरिकृते शां० चरित्रे-१-१७०] तदाकर्ण्य व्याकुलचेतसा राजपुत्री दध्यौ-'एषोऽघटमानं किमेतद् वाक्यं प्रजल्पति ? ततश्च राजपुत्री निजहस्तेन तस्मै पञ्चसौगन्धिकं ददौ । मङ्गलकलसस्त्रैलोक्यसुन्दरी जगाद-'पुनर्देहचिन्तायां गमिष्यामि, त्वया क्षणान्तरेण नीरं गृहीत्वा आगन्तव्यं ।' शनैः शनैः प्रधानगृहान्निर्गत्य पुरुषान् पप्रछ-'भो ! राजदत्तं मामकं क्वाऽस्ति ?' । तैः ऊज्जयिन्याः पथि स्थितं तत्सर्वं दर्शितम् । सारतरं वस्तुः [रथे] निक्षिप्य अश्वान् योजयित्वा पुरीं प्रति चचाल सः । स्तौकेरेव दिनैस्तां निजां नगरी प्राप्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org