________________
श्रीहंसचन्द्रशिष्यविरचितम् • २५१ वृक्षादुत्तीर्य शीतविद्रुतः अग्नेरनुसारेण चम्पापुर्या बहिः समेतः । पूर्वोद्दिष्टेन नरेण स्वस्य समीपमानीतः । प्रभातसमये गोपयित्वा अमात्यस्याऽर्पितः भोजनवस्त्रादिभिः गौरवं चक्रे । दिवानिशं गृहस्यान्ते गोपनमकरोत् । ततो मङ्गलकलशश्चिन्तयामास-'किं ममाऽयं सत्क्रिया कुरुते ? गृहमध्ये रक्षति ? ।' अन्यदाऽमात्यं पप्रच्छ-'तात ! वैदेशिकस्य मम किं भवद्भिरधिकं माननं क्रियते ? का एषा पुरी ? को देशोऽत्र भूपतिः कः? सत्यं मम कथय अत्र विस्मयो प्रवर्तते'ऽमात्योनिजगाद'चम्पानाम्नी पुरी, अङ्गाभिधानो देशः, सुरसुन्दरोऽत्र राजा, तस्य राज्ञोऽहं सुबुद्धिनामा मन्त्री । वत्स ! त्वं गरीयसा कारणेनात्रानीतोसि, राज्ञा पुत्री त्रैलोक्यसुन्दरी विवाहितुं मम पुत्राय प्रदत्ता, मम पुत्रस्तु कुष्ठेन पीडितः, हे भद्र ! त्वया विधिना सा नृपपुत्री परिणीय मम पुत्राय दातव्या । तदर्थं त्वमत्राऽनीतः।' तदाऽकर्ण्य मङ्गलोऽवोचदेतदकृत्यं किं करोमि ? सा बाला रूपवती क्व ? क्व ते रोगी पुत्रः ? कथञ्चिदिदं निष्ठुरं कर्म [न] करिष्यामि-कृपे क्षिप्त्वा रज्जुकर्त्तनोपममिदं ।' मन्त्री बभाण-'चेदिदं न करिष्यसि दुर्मते ! तदा त्वां निजहस्तेन निश्चितं मारयिष्यामि ।' एतच्छ्रुत्वाऽकृत्यमनुमेने । ततो मङ्गलकलशश्चिन्तयामास-'इदं भवितव्यं अन्यथा क्व सा ऊज्जयिनी ? ममेहागमनं क्व च ? आकाशवाणी कथमन्यथा भवति ? यद् भाव्यं तद् भवतु, तत्करोमि ।' मङ्गलः इदं विचिन्त्य मन्त्रिणं प्रत्याह स्म-'मयाऽऽवश्यं निघृणं कार्य, मद्वचनमिदमङ्गीकर्तव्यं यद् राजा मह्यं ददाति तद् वस्तु ममैव । ऊज्जयिन्याः मार्गे तत्सर्वं स्थापनीयम् ।' मन्त्री तद् वाक्यं मेने-‘एवमस्त्विति ।'
लग्ने समागते स हस्तिस्कन्धारोपितः वस्त्राभरणभूषितः भूपतिसमीपे समानीतः । सा त्रैलोक्यसुन्दरी तं मन्मथोपमं दृष्ट्वा स्वं कृतार्थममंस्त ।
Dic
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org