________________
२५० • मङ्गलकलशकथानकम् 'भोऽत्रार्थे त्वया न शोच्यम् । त्रैलोक्यसुन्दरी अवश्य त्वत्पुत्राय देया ।' अङ्गीकृतं प्रधानेन राज्ञः वचः । गृहे गत्वा व्यचिन्तयत्-'किं करोमि ?, व्याघ्रतटिनीन्याये पतितोस्मि, राज्ञः पुत्री देवाङ्गनाशदृशी, मत्पुत्रस्तु कुष्ठी ।' तस्य चिन्तयतः बुद्धिरुत्पन्ना-'कुलदेवतामाराध्य वाञ्छितं साधयिष्यामि ।' विधिना कुलदेवतामाराधयामास । सापि प्रत्यक्षीभूयोवाच-'हे मन्त्रिन् ! किं स्मृतास्मि ?' मन्त्रि जगाद-'दुःखस्य कारणं स्वयं त्वं न वेत्सि ? यथा पुत्रो निरोगो भवेत् तथा कुरु ।' देव्यूचे'देवैरपि पुरा कृतं कर्म अन्यथा कर्तुं न शक्येत, तत इयं प्रार्थना वृथा ।' मन्त्री प्रोवाच-'अन्यपुरुषं सुरूपमानीयाऽर्पय ।' देवताऽवदत्-'पुरीद्वारे शीतनिरासार्थं यो बालको अग्निसेवापरो भवति, स त्वया ग्राह्यः । पश्चाद् यथोचितं कुर्याः' इत्युक्त्वा गता देवी ।
सचिवो विवाहसामग्री सर्वां कुरुते स्म । अभ्यन्तरपुरुषानाकार्य आदितः सर्वं वृत्तान्तं प्रोक्तं- 'हे सखे ! शीतव्यथासंयुक्तो यो बालोऽभ्येति सोऽत्रानयितव्यः ।' कुलदेवता उज्जयिन्यां पुर्यां ययौ । तस्यास्त्रैलोक्यसुन्दर्याः तं श्रेष्ठिनन्दनं वरं विज्ञाय देवी आकाशस्थिता प्रोवाच-'पुष्पाणि गृहीत्वा याति सोऽयं बालकः राजकन्यकां भाटकेन परिणेष्यति ।' सोऽथ तत् श्रुत्वा विस्मित:-'किमेतत् ? तातस्य कथयिस्यामीति ध्यायन् गृहं ययौ । गृहं गतस्य तस्य सा वाणी विस्मृता। द्वितीये दिवसे पुनः श्रुत्वाऽचिन्तयत्-'गृहे गत्वाऽद्य पितुः कथयिस्यामि।' यावदिदमचिन्तयत् तावद् देव्या उत्पाट्याटव्यां मुक्तः । सो बालको भयभ्रान्तः तृषाक्रान्तः श्रान्तः सन् एकं सरोवरं ददर्श । तत्र वस्त्राञ्चलेन गलित्वा शीतलं पयः पीतम् । तदनु भानुरस्तमितः । सः दर्भतृणै रज्जु कृत्वा द्रुममारुह्योत्तरस्यां दिशि ज्वलितानलमपश्यद् । सो
cisxce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org