________________
अज्ञातकर्तृकम् • २४३ . वेषात् कुमारो भूत्वाऽसौ, नाम्ना त्रैलोक्यसुन्दरः । क्रमेणोज्जयिनीं प्राप, स्वपरीवारसंयुतः ॥११८॥ वैरिसिंहो नृपो ज्ञात्वा, कुमारं रुष्टमागतम् । सम्भाव्य मानदानेनाऽस्थापयद् भवने वरे ॥११९।। नीरानयनमार्गस्योपरिष्टात् कारिते शुभे । आवासे वसतिं चक्रे, विद्वाँस्त्रैलोक्यसुन्दरः ॥१२० ॥ ततश्चतुःपथे गौडप्रसादे चत्वरे त्रिके । भ्रमन्मिषान्तरात् तत्र, न लेभे वल्लभं निजम् ।।१२१।। खिन्नोऽथाऽचिन्तयन्मौख्यं, द्वितीयं हि मया कृतम् । मालच्युतानामुपरि, प्रहार: पिट्टनस्य मे ।।१२२।। भित्तिहीनं यथा चित्रं, दन्तहीनं च चर्वणम् । अग्निहीनं तापनकं, तद्धीनं जीवितं मम ॥१२३।। गवाक्षस्थोऽन्यदाऽऽयातं, वाप्यां तद् वाजिपञ्चकम् । वीक्ष्योपलक्ष्य तत्स्वामिज्ञानाय नरमादिशत् ॥१२४।। धनदत्तसुतस्यास्य, मङ्गलस्याऽत्र तद्गृहम् । नरो ज्ञात्वाऽवदत् तस्मै, सोऽत्राऽस्त्याऽऽचार्यसन्निधौ ॥१२५।। कुमारोऽपीति सिंहस्य प्रोच्य ज्ञातुं च मङ्गलम् । प्रस्थाप्य सिंहं स च्छात्रं, सोपाध्यायं न्यमन्त्रयत् ॥१२६।। आसनेषु निवेश्योच्चैः कुमारश्छात्रमण्डलीम् । मिषेण मङ्गलं त्यक्त्वा, सोपाध्यायमभोजयत् ॥१२७।। ततो हिरण्मये स्थाले, स्वयं भक्तिपरायणः । आसने विनिवेश्योच्चैर्भोजयामास मङ्गलम् ॥१२८||
Sao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org