________________
२४४ • मङ्गलकलशकथानकम् ताम्बूल-वस्त्राऽलङ्कारदानात् सन्मान्य तांस्ततः । कुमारः कथयामास, कथयध्वं कथां मम ॥१२९॥ तेऽप्यूचूर्वल्लभो यस्तु यस्य मानं ददौ भवान् । कुमारो मङ्गलः सोऽयं, कथां ते कथयिष्यति ॥१३०|| मङ्गलोऽवक् कथा कथ्या, स्वाऽनुभूताऽथ कल्पिता ? । कुमारः प्राह सा कथ्या, याऽनुभूता स्वयं त्वया ॥ १३१ ॥ ततस्तेन स्ववृत्तान्ते, निखिलेऽपि निवेदिते । साटोपं कुमारः प्राह, सिंहभूपस्य पश्यतः ॥ १३२ ॥ बध्यतां बध्यतामेष, सर्वाऽसम्बद्धभाषकः । मत्तातसचिवस्याऽपि, योऽलीकं दूषणं ददौ ॥ १३३ || ततः कुमारस्तं नीत्वा, ससिंहं मन्दिरोपरि । सिंहासने निवेश्योच्चैर्बभाषे गद्गदाक्षरम् ॥१३४॥ खिन्नां दीनां वराकीं मां, माऽद्यापि त्वमुपेक्षसे । तृतीयं त्राणमश्वस्य, सादिनः कौतुकं न हि ॥ १३५ ॥ प्राप्तः सङ्केततो देव !, प्रसीद त्वं तथाप्यमुम् । ताततुल्यमभिज्ञानात्, प्रत्याययितुमर्हसि ॥ १३६ ॥ ततः स्वमन्दिरे सिंहभूपं प्रस्थाप्य मङ्गलः । नृपनामाङ्कितं वस्तु, सर्वमप्याऽऽनयत् क्षणात् ॥१३७॥ तत्प्रत्ययात् सरोमाञ्चा, हृष्टा त्रैलोक्यसुन्दरी । नरवेषं परित्यज्य, लज्जानम्राऽऽननाऽभवत् ॥१३८॥ पुनर्नृवेषमादाय, सप्रिया सा नृपान्तिके । यात्वा वृत्तान्तमखिलं, सिंहभूपमुखाज्जगौ ॥१३९॥
5.TQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org