________________
२४२ • मङ्गलकलशकथानकम् नृनाथेन परित्यक्ता ज्ञाता त्रैलोक्यसुन्दरी । जनन्या अपि सर्वस्य, द्वेष्या साऽजनि हा ! तदा ॥१०७|| इत्थं कियत्यपि गते, काले बाला प्रियोदितम् । अस्मार्षीदिति सिप्राम्भः, संयुता मोदकाः शुभाः ॥१०८।। अप्रेम-दुःखनाशाय, कान्तः सङ्केतमादिशत् । यथा हि वृश्चिकार्तानां, सङ्केता जीवनौषधम् ॥१०९।। साकूतं सा विमृश्याम्बां, तातविज्ञप्तिकाकृते । व्यजिज्ञपज्जनन्योचे, मुग्धे ! किं न श्रुतं त्वया ? ॥११०।। महत्पूरे प्रतरणं, ज्वरपूरे यथौषधम् ।। तथा विज्ञप्तिका कोपपूरे प्रोक्ता निरर्थका ॥१११॥ अथाऽन्यदा सिंहनृपं ताततुल्यमदोऽवदत् । तात ! विज्ञप्तिकामेकां, ताताऽग्रे मां च कारय ॥११२।। त्वयि तिष्ठति यत् तात !, मम न स्यात् समीहितम् । सिद्धान्नेपि क्षुधात्र्तिस्तत्, तृषार्तिः सरसस्तटे ॥११३।। ततः सिंहनृपो वाक्यमङ्गीकृत्य नृपान्तिके । यात्वा विज्ञप्य तां बालां, निन्ये भूपस्य सन्निधौ ॥११४।। सगद्गदमदोऽवादीत्, सा तात ! त्वं प्रसद्य मे । तानयं देहि मे वेषं, प्रेषयोज्जयिनीपुरीम् ॥११५।। नृपोपि नीत्याऽनुमतं, सकारणमिदं त्विति । मत्वा तस्य ददौ वेषं, प्रेषीत् सिंहनृपं सह ॥११६।। वत्से ! शीलवती भूयात्, कलङ्को न यथा कुले । सिंहमप्यनुशास्यैतद्, विससर्ज नरेश्वरः ॥११७।।
A5x219
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org