________________
अज्ञातकर्तृकम् • २४१ सोचे यूयं धूवं भ्रान्ता, लास्येऽत्रैव निशामहम् । प्रातस्तं कुष्ठिनं वीक्ष्य, पितुर्गेहं कनी ययौ ।।९७।। गतां विज्ञाय तां मन्त्री, मन्त्रयन् यदहो ! खलु । न याति बन्धनं पादात्, खर: स्वर्गं प्रयाति चेत् ।।९८।। त्रस्तो वह्नर्ययौ कूपं, शान्तेर्वेताल३ उत्थितः । मर्दयित्वोदरे शूलं, मया हा ! दैव ! किं कृतम् ? ॥९९।। और्वे लग्ने गृहे कूपो, दमोऽश्वानामरिग्रहे । स्यात्पूरे केन पालिर्वा, किं करोमि तथाऽधुना ? ॥१००। श्याम्यते चाऽधुनाऽप्येतद्,.... मुक्तमणीच्युतम् । योजनानां च वर्षाणां, शतं याति च जीवति ॥१०१।। शोकवेषं ततः कृत्वा, सभायां कपटी गतः । शोकस्य कारणं राज्ञा, पृष्टो वाक्यमदोऽवदत् ।।१०२।। यद्युत्पातवचो वक्तुं स्वामिनोऽग्रे न शक्यते । तथापि छब्बया छन्नं, प्रभातं नैव तिष्ठति ॥१०३।। सुरासङ्गाद् यथा कुम्भः श्वपाकी सङ्गमाद् द्विजः । अयोग्यस्त्वत्सुतासङ्गात् तथा सूनुर्बभूव मे ।।१०४।। तद्वाक्य-वज्र-पातेन, मन्त्रिणा हृदये हतः । पुननि:श्वस्य निःश्वस्याऽऽघूर्णयन्मेदिनीपतिः ॥१०५।। क्रुद्धः प्रोचे ततो भूपो, मत्कुले कुकलङ्कदा । पतिविध्वंसिनी पापा नाऽऽनेतव्या ममाऽग्रतः ॥१०६।।
३. शान्त्यै वेताल [?] । ४. अत्र कस्माच्चिन्मध्यस्थात् केन्द्रान्मुक्तं वस्तु लक्ष्यते । ५. अत्र 'अणी' शब्दः देश्यः । ६. 'छब्बया' देश्यः शब्दः 'छाबडी' इति भाषायाम् ।
Asfag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org