________________
२४० • मङ्गलकलशकथानकम् पुनर्भूसञया पुम्भिः, प्रेर्यमाणो मिषान्तरम् । विधाय निर्ययौ प्राप, तं मागं यत्र ते हयाः ।।८६।। सर्वं सारं रथे क्षिप्त्वा, गृहीत्वा हयपञ्चकम् । क्रमेण मार्गमुल्लङ्घ्य, स्वां पुरीं प्राप मङ्गलः ॥८७|| स्वमन्दिरप्रवेशे स, मार्गो नास्तीति भाषिभिः । पुम्भिः समं कलकलं, करोति स्म मुहुर्मुहुः ।।८८॥ गाढं कलकलं श्रुत्वा, धनदत्तः प्रियान्वितः । यावदागात् तदोत्तीर्य मङ्गलेन नमस्कृतः ॥८९।। कोऽयं ? किमेतत् ? कुत्रागात् ? किं नामा ? कस्य वा सुत: ? । ऊहं वितन्वताऽत्यन्तं, सुतस्तेनोपलक्षितः ॥९०।। तौ दम्पती सुतं प्रेक्ष्याऽऽश्लिष्यं तौ च मुहुर्मुहुः । प्रापतुः शं तथा बाढं, न जिह्वागोचरं यथा ॥९१।। रथादुत्तीर्य तत्सर्वं, स्ववृत्तान्तं निवेद्य च । तत्रैव मन्दिरं प्रौढं, कारयामास मङ्गलः ॥९२।। तद् वाजिपञ्चकं पुष्यन्, कलाभ्यासं नवं नवम् । कुर्वन् दिनानि निन्ये स, सुखेनाऽऽचार्यसन्निधौ ।।१३।। इतश्च मन्त्रिसूर्गेहाद्, गतं ज्ञात्वा नरोत्तमम् । वेषं वैवाहिकं कृत्वा, वासागारं विवेश सः ॥९४|| अकाण्डवज्रपाताऽऽभः, कोऽयं काकोपमो नरः । एति हंसास्पदे भीता, सखीवृन्दमियाय सा ॥९५।। सख्यः प्रोचुः किमायाता ? पतिस्ते मन्दिरं गतः । सोचेऽन्यो स नर: कोपि, ता ऊचुर्भ्राम्यसे मुधा ॥९६।।
SICO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org