________________
अज्ञातकर्तृकम् • २३९
परं पाणौ मोच्यमाने, भूपो दास्यति यन्मम । उज्जयिन्याः पथि स्थाप्यं, तत्सर्वं तन्मतं मम ॥७५॥ तथेति तद्वचो मेने, प्रीतो मन्त्री स्ववेश्मनि । कारयामास सामग्रीं विवाहाय विशारदः ॥७६॥ शुभे लग्ने सुसामग्रीसंयुतः सचिवेश्वरः । महोत्सवेन महता, मङ्गलं पर्यणाययत् ॥७७॥ नृपोऽपि रञ्जितोऽत्यन्तं, जामातुः सहजैर्गुणैः । मङ्गलेषु ददौ द्रव्यं, मङ्गलाय मुहुर्मुहुः ||७८|| ततोऽप्यमोक्तरि करे, जामातरि नृपोऽवदत् । सप्ताङ्गं राज्यमस्त्येतद् वत्स ! [ तत् त्वं कि] मीहसे ? ||७९ || मङ्गलोऽवग् देव ! देहि, वल्लभं वाजिपञ्चकम् । नृपोऽददत् तदप्यस्मै तदल्पं तादृशे खलु ॥८०॥ स्तुयमानो बन्दिवृन्दैर्वर्ण्यमानश्च नागरैः । गीयमानः कुलस्त्रीभिः, प्राप मन्त्रीशमन्दिरम् ॥८१॥ मङ्गलो मङ्गलीकादि, मागल्यं च पदे पदे । श्रयन् वासगृहं प्राप, तापकृद् दौर्जने हृदि ॥८२॥ पुम्भिः दृग् सञ्ज्ञया याहि, प्रोक्तोऽपि विबुधाग्रणीः । मङ्गलः प्रेयसीं प्राह, भुज्यते चेत् तदा शुभम् ॥८३॥ तदाकर्ण्य स्वदासीभिर्मोदकानानयद् द्रुतम् । भुङ्क्ते स्म तदैकत्र, मिथुनं प्रीतिमन्मथः ||८४|| भुञ्जानो मङ्गलः प्राह, मोदका मोदकास्तदा । यदोज्जयिन्या नीरेण संयुताः स्युरमी प्रिये ! ॥८५॥
2
Pistaa
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org