________________
श्रीभावचन्द्रसूरिविरचितम् • २२५ इतस्तत्र नगरे जिनदेवाभिधः श्रावकोऽभूत् । तस्य सोमचन्द्रेण सह मैत्री निबिडा बभूव। एकदा सत्यपि धने जिनदेवो धनाकाङ्क्षया देशान्तरं गन्तुकामः सोमचन्द्रं मित्रं प्रति बभाषे- 'भो मित्र ! देशान्तरेऽहं धनहेतवे गमिष्यामि। परन्तु त्वया मामकं धनं सप्तक्षेत्र्यां यथाविधि वाप्यम् । तवापि पुण्यषष्ठांशो भवतु । इत्युक्त्वा दीनारसहस्रदशकं तस्यार्पयित्वा स देशान्तरे गतः । तस्मिन् प्रयाते सति सोमचन्द्रेण शुद्धचेतसा तदीयं धनं यथोचितस्थानेषु व्ययितम् । तने सोमचन्द्रेण कियद्धनं स्वकीयमपि व्ययितम् । महत्पुण्यमुपार्जितम् । तद्भार्यापि तद्धनानुमोदनया पुण्यं भेजे । तथा तस्मिन्नेव पुरे तस्याः श्रीदेव्याः सखी भद्राभिधानाऽभवत् । सा नन्दश्रेष्ठिपुत्री देवदत्तस्य गेहिनी । एवं सति कियता कालेन स देवदत्तः श्रेष्ठी कर्मदोषात् कुष्ठी जातः । ततस्तत्प्रिया भद्रा विषीदति स्म। एकदा तया श्रीदेव्याः सख्याः पुरत इत्युक्तम्-केनापि कर्मणा मत्पतिः कुष्ठी जज्ञे । तदा तया हास्येनोक्तम्- हे सखि ! त्वदङ्गसङ्गत एव तव प्रियः कुष्ठी जातः । नूनं त्वं महापापकर्वी मम दृष्टिमार्गाद् दूरतो गच्छ । मुखं मा दर्शय। इत्युक्ते सा मनसि दूना, क्षणं श्याममुखी तस्थौ । पुनरपि तया क्षणेनैवं प्रोचे-सखि त्वया खेदो न कर्तव्यः । अहं त्वया सह हास्यं करोमि । ततः सा प्रमुदिता । अथ सोमचन्द्रः स्वपत्न्या सार्धं साधुसंसर्गतः श्रीमद्धर्मं प्राप्य पालयामास । तदनन्तरं समाधिना मृत्वा तौ दम्पती सौधर्मे पञ्चपल्यायुषौ त्रिदशौ जातौ । ततः सोमचन्द्रात्मा सौधर्माच्च्युत्वा हे भूपाल ! भवान् जातः । तथा श्रीदेव्या जीवस्ततश्च्युत्वा त्रैलोक्यसुन्दरी जज्ञे । भो राजन् ! यद् भवता सोमचन्द्रभवे परद्रव्येण पुण्यमुपार्जितं तत्प्रभावाद् भाटकेन राजसुता परिणीता । तथा च तया त्रैलोक्यसुन्दर्या पुरा श्रीदेवीभवे हास्येनैव वयस्यायै यः कलङ्को
oxas
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org