________________
२०८ . मङ्गलकलशकथानकम् अन्यदोद्यानमायातं, जयसिंहाभिधं गुरुम् । गत्वा ववन्दे भवेन, सकलत्रः स भूपतिः ॥२०८।। पप्रच्छ च यथा केन, कर्मणा भगवन् ! मया । प्राप्ता विडम्बनोद्वाहे, देव्या प्राप्तं च दूषणम् ? ॥२०९।। सूरिरूचेऽथ भरते, क्षेत्रेऽत्रैवास्ति पत्तनम् । क्षितिप्रतिष्टितं नाम, धनधान्यसमृद्धिभाक् ।।२१०।। आसीत् तत्र सोमचन्द्राऽभिधानः कुलपुत्रकः । श्रीदेवीति च तद्भार्या, तौ मिथः प्रीतिशालिनौ ॥२११।। सोमचन्द्रः प्रशान्तोऽसावार्जवादिगुणान्वितः । मान्यः समस्त लोकानां, तस्य भार्या च तादृशी ।।२१२।। इतस्तत्रैव नगरे, जिनदेवाभिधः सुधीः । श्रावकोऽभूत्समं तेन, तस्य मैत्री निरन्तरम् ॥२१३।। जिनदेवो धनाकाङ्क्षी, धने सत्यपि सोऽन्यदा । देशान्तरं गन्तुकामो, निजमित्रमभाषत ॥२१४|| धनायाहं गमिष्यामि, मयि तत्र गते त्वया । मामकीनं धनं सप्तक्षेत्र्यां वाप्यं यथाविधि ॥२१५।। तवापि तस्य पुण्यस्य, षष्ठांशो भवतादिति । दिनाराणां सहस्राणि, दश तस्यार्पयत्करे ॥२१६।। गते देशान्तरे तस्मिन्, सोमचन्द्रोऽथ तत्सुहृद् । व्ययति स्म यथास्थानं, तद्रव्यं शुद्धचेतसा ॥२१७।। आत्मीयमपि शक्त्यानुसारेणायं व्यधाद् व्ययम् । तज्ज्ञात्वा तस्य भार्यापि, धर्मं भेजेऽनुमोदनात् ।।२१८॥
Disce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org