________________
श्रीराजवल्लभोपाध्यायविरचितम् • २०७ अहो ! कुधीरमात्यस्य, पापकर्मविधायिनः । येनाऽदोषापि मत्पुत्री, सदोषा विहिता हहा ! ॥१९७।। सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । समानाय्यावनीपालः, सञ्जातोऽतीवहर्षभाक् ।।१९८।। अमात्यं धारयित्वा च, मार्यमाणं महीभुजा । मङ्गलो मोचयामास, गाढाभ्यर्थनया नृपात् ।।१९९।। जामातुरुपरोधेन, मया मुक्तोऽसि पाप ! रे ! । इति चोक्तवता राज्ञा, सोऽथ निष्कासितः पुरात् ॥२००।। अपुत्रः सोऽथ भूपालो, मत्वा जामातरं सुतम् । तत्रैवानाययामास, तन्मातापितरावपि ॥२०१।। अन्येधुर्मन्त्रिसामन्तसम्मत्योत्सवपूर्वकम् । मङ्गलकलशं राज्ये, सुधीः स्थापयति स्म सः ॥२०२।। यशोभद्राभिधानानां, सूरीणां चरणान्तिके । सुरसुन्दरभूपालः, परिव्रज्यामुपाददे ।।२०३।। राज्ये संस्थापितः कोऽपि वणिग्जातिरितीर्ण्यया । सीमास्थपार्थिवा राज्यं, हर्तुं तस्योपतस्थिरे ॥२०४।। सेनया चतुरङ्गिण्या, सहितेन महौजसा । दृढपुण्यप्रभावेण, जिताः सर्वेऽपि तेन ते ।।२०५।। शान्ताऽमित्रस्य तस्याथ, राज्यं पालयतः सतः । पत्न्यां त्रैलोक्यसुन्दन्, सुतोऽभूज्जयशेखरः ।।२०६।। स च राजा निजे देशे, जिनचैत्यान्यनेकशः । जिनार्चारथयात्रादिधर्मकृत्यान्यकारयत् ।।२०७।।
Asya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org