________________
२०६ • मङ्गलकलशकथानकम् अथैनमासनेऽध्यास्य, सिंहमूचे नृपाङ्गजा । भद्र ! येनाहमूढास्मि स एवायं प्रियो मम ।।१८६।। किमत्र युज्यते कर्तुमित्युक्तः सोऽपि चाब्रवीत । अयं हि तव चेद् भर्ता, तदा सेव्यो ह्यशङ्कितम् ।।१८७।। सोचे सिंह ! तवाद्यापि, चित्ते यद्यपि संशयः । तदास्य मन्दिरे गत्वा, स्थालादीनि विलोकय ॥१८८।। तथाकर्तुमथो सिंहो, धनदत्तगृहं ययौ । स तु छात्रमुखात्पुत्रापदं श्रुत्वाऽऽकुलोऽभवत् ।।१८९।। पुत्रस्य गौरवोदन्तमाख्यायैतेन बोधितः । दर्शयामास स स्थालादीनि तस्य विवेकतः ॥१९०|| वद्ध्वाः स्वरूपकथनेनाह्लाद्य श्रेष्टिनं ततः । सिंहः पुना राजपुत्र्याः, समीपं समुपाययौ ।।१९१।। सिंहेनानुमता साथ, कृत्वा स्त्रीवेशमद्भुतम् । बभूव वल्लभा तस्य, मङ्गलस्य महात्मनः ।।१९२।। ययौ च श्रेष्ठिनो वेश्म, तयुग्मं पार्थिवोऽपि तत् । आकार्य सर्ववृत्तान्तं, पृष्ट्वा श्रुत्वा विसिष्मिये ||१९३।। ततस्तत्रैव सौधे स, गत्वा राजाज्ञया पुनः ।। समं त्रैलोक्यसुन्दर्या, विललासाथ मङ्गलः ॥१९४।। सुन्दर्या प्रेषितः सोऽथ, सिंहः सबलवाहनः । लात्वा पुरुषवेषं तं ययौ चम्पापुरी पुनः ॥१९५।। तेनाथ सर्व वृतान्ते, कथिते जगतीपतिः । हृष्टोऽभाशिष्ट वत्साया, अहो ! मे मतिकौशलम् ॥१९६।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org