________________
श्रीराजवल्लभोपाध्यायविरचितम् • २०९
तस्मिन्नेव पुरे तस्याः, सखी भद्राभिधानतः । नन्दस्य श्रेष्ठिनः पुत्री, देवदत्तस्य गेहिनी ॥ २१९ ॥ देवदत्तः स कालेन, कर्मदोषेण केनचित् । कुष्ठी जज्ञे ततो भद्रा, तत्प्रिया विषसाद सा ||२२०|| पुरः सख्यास्तयान्येद्युस्तत्स्वरुपं निवेदितम् । तया च हासपरया, भणिता सा ससंभ्रमम् ॥२२१॥ हले ! त्वत्सङ्गदोषेण, कुष्टी जज्ञे पतिस्तव । ममापि दृष्टिमार्गात् त्वमतोऽपसर दूरतः ॥२२२॥ सा तेन वचसा दूना, त्रपयाधोमुखी स्थिता । हास्यमेतदिति प्रोच्य, तयैवाह्निदिता ततः ॥ २२३ ॥ स सोमचन्द्रः श्रीदेव्या, तया सार्धं स्वभार्यया । साधुसंसर्गतः प्राप्तं, श्राद्धधममपालयत् ॥ २२४ ॥ अन्ते समाधिना मृत्वा, सौधर्मे त्रिदशाविमौ । दम्पती समजायेतां पञ्चपल्योपमस्थिती ॥२२५॥ सौधर्मात्सोमचन्द्रात्मा, च्युत्वाभूद् भूपते ! भवान् । जीवश्च्युत्वा च श्रीदेव्या, जज्ञे त्रैलोक्यसुन्दरी ॥ २२६ ॥ परद्रव्येण यत्पुण्यं, भवतोपार्जितं तदा । तदेषा भाटकेनैव, परिणीता नृपात्मजा ॥ २२७॥ हास्येनापि वयस्यायै, यद् दत्तस्त्वनया पुरा । कलङ्कः कर्मणा तेन, कलङ्कोऽस्या अपीलु ॥ २२८॥ तदाकर्ण्य विरक्तौ तौ दत्त्वा राज्यं स्वसूनवे । राजा राज्ञी च प्रव्रज्यां, पार्श्वे जगृहतुर्गुरोः ॥ २२९ ॥
Sta
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org