________________
२०४ • मङ्गलकलशकथानकम्
वैरसिंहो नृपोऽप्येवं, शुश्राव जनतामुखात् । यच्चम्पायाः समागच्छन्नस्त्यत्र नृपनन्दनः || १६४|| अभियानादिसन्मानस्वागतप्रश्नपूर्वकम् । पुरीं प्रावेश्य तेनासावानीतो निजमन्दिरे ॥१६५॥ पृष्टश्चागमनार्थं सः, प्रोवाच नगरीमिमाम् । दृष्टुमाश्चर्यसम्पूर्णामागतोऽस्मि कुतूहलात् ॥१६६॥ ततः प्रोक्तो नरेन्द्रेण, त्वया स्थेयं ममौकसि । सुरसुन्दरराजस्य, ममगेहस्य नान्तरं ॥ १६७ ॥ राजढौकितगेहे सा, तस्थौ सबलवाहना । पत्तश्चिन्त्यादिशत्स्वादुनीरस्थानं निरीक्ष्यताम् ॥१६८॥ पूर्वस्यां दिशि ते तत् तु, ज्ञात्वा तस्यै न्यवेदयन् । तन्मार्गे कारितावासेऽसौऽवसच्च नृपाज्ञया ॥ १६९॥ गच्छतो नीरपानार्थमन्यदाश्वान्निरीक्ष्य तान् । सा दध्यौ मम तातस्य, सत्का एते तुरङ्गमाः ॥१७०॥ तेषामनुपदं प्रेष्य, पुनर्भृत्यान् विवेद सा । भर्तृर्गृहाभिधानादिसर्वशुद्धि मनस्विनी ||१७१ || ज्ञानाभ्यासपरं तं च, ज्ञात्वा त्रैलोक्यसुन्दरी । उवाच सिंहं भर्ता मे, दृष्टव्योऽथ कथं ? वद ॥ १७२॥ सिंहस्यानुमतेनाथ, कुमारी सा विचक्षणा । सच्छात्रं तं कलाचार्यं भोजनाय न्यमन्त्रयत् ॥१७३॥ भोजनार्थमुपाध्याये तत्रायाते ददर्श सा । छात्रमध्ये स्वभर्त्तारं, हृदयानन्ददायिनम् ॥१७४॥
CbYaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org