________________
श्रीराजवल्लभोपाध्यायविरचितम् • २०३
पार्थिवोऽथाश्रुपूर्णक्षः, प्रोचे सिंह ! पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतं ॥१५३॥ सा तत्कर्मप्रभावेण, कलङ्किततनूरभूत् । इष्टाप्यनिष्टतां प्राप्ता, गाढमस्माकमप्यहो ! || १५४ || वाक्यं तदद्य यत्किञ्चिद् वक्तुं सा मे समीहते । वदतु तत्सुखेनेयमत्रागत्य विचक्षण ! ॥१५५॥ ततस्तदनुमत्यैत्य, तत्र त्रैलोक्यसुन्दरी । उवाच तात ! मे वेषं, कुमारोचितमर्पय ॥१५६॥ भूयो राजाब्रवीत् सिंह, किमिदं वक्त्यसौ वचः ? | सोऽवदद् देव युक्तं हि क्रमोऽस्ति यदयं किल ॥१५७॥ राज्ञां गृहेषु चेत्पुत्री, गुरुकार्येण केनचित् । याचते यदि पुंवेषं, दातव्योऽस्यै तदा हि सः || १५८|| ततस्तदनुमत्यास्यै, पुंवेषं पार्थिवो ददौ ।
,
आदिदेश च तं सिंहं तद्रक्षार्थं बलान्वितम् ॥१५९॥ जगादाथ कुमारी सा, ताताज्ञा चेद् भवेत् तव । उज्जयिन्यां तदा यामि, कारणेन गरीयसा ||१६०||
कारणं कथयिष्यामि, जाते मेऽथ समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ १६१॥ पुत्रिके ! मम वंशस्य, यथा नाभ्येति दूषणं । तथा कार्यं त्वयेत्युक्त्वा, विसृष्टा सा महीभुजा ||१६२|| ततश्च सिंहसामन्त - भूरिसैन्यसमन्विता ।
अखण्डित प्रयाणैः सा, ययावुज्जयिनीं पुरीम् ॥१६३||
Sya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org