________________
२०२ • मङ्गलकलशकथानकम् आललाप न कोऽप्येनामीक्षते तां दृशापि न । एकत्र गुप्तगेहेऽस्थात्, सा मातृगृहपृष्टतः ॥१४२।। अचिन्तयच्च दुःकर्म, पुरा यद् विहितं मया । तेन क्वापि ययौ नंष्ट्वा, परिणीतः स मे पतिः ॥१४३।। अन्यच्च लोकमध्ये मे, कलङ्कः समुपस्थितः । किं करोमि ? क्व गच्छामि ? व्यसने पतितास्मि हा ! ॥१४४।। एवं चिन्ता प्रकुर्वन्त्यास्तस्याश्चिते स्मृतं तदा । भवितोज्जयिनीपुर्यां, प्राप्तो नूनं स मे पतिः ।।१४५।। तदा च मोदकांस्तेन, भुक्त्वा सञ्जल्पितं किल । एते हि मोदका रम्याः, किन्त्ववन्त्या जलोचिताः ।।१४६।। ततः केनाप्युपायेन, तत्र गच्छाम्यहं यदि । तदा तं हि मिलित्वाहं, भवामि सुखभागिनी ।।१४७|| अथान्येधुरवक् साऽम्बां, हे मातर्जनको मम । एकवारं यथा वाक्यं, शृणोति त्वं तथा कुरु ॥१४८।। तां दृष्ट्वानादरपरामन्येद्युः सिंहनामकं । सामन्तं ज्ञापयामास, सा तमर्थं कृताञ्जलिः ॥१४९।। सोऽथ राजकुले गत्वा, नृपं नत्वोपविश्य च । इति विज्ञपयामास, प्रस्तावे वदतां वरः ॥१५०।। नृपाथ भवतां मान्या, कन्या सम्प्रत्यसम्मता । वराकी वर्तते कष्टेनैषा त्रैलोक्यसुन्दरी ।।१५१।। अस्याः सन्मानदानानि, दूरेऽस्त्वालापनं तथा । वाक्यश्रवणमात्रेण, प्रसादोऽद्य विधीयतां ।।१५२।।
SyaQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org