________________
श्रीराजवल्लभोपाध्यायविरचितम् • २०१
राजा प्रोवाच हे मन्त्रिन्नुक्त्वा स्वदुःखकारणं । मामप्यमुष्य दुःखस्य, संविभागयुतं कुरु ॥१३१॥ निःश्वस्य सचिवोऽप्यचे, देव! दैवं करोति यत् । तद् वक्तुमपि नो शक्यमश्रद्धेयं च शृण्वतां ॥ १३२॥ स्वामीपादैः सप्रसादैर्दत्ता पुत्री ममात्मजा । तस्यां तु परिणीतायां, यज्जातं तन्निशम्यतां ॥१३३॥ यादृग् राज्ञा स्वयं दृष्टस्तादृगेव सुतो मम । अधुना कुष्ठरोगार्त्तो, दृश्यते क्रियते नु किं ? ॥१३४|| तत् श्रुत्वा भूपतिर्दध्यौ, सा नूनं मम नन्दिनी । कुलक्षणा यया स्पृष्टः कुष्ठी जातोऽस्य पुत्रकः ॥१३५॥ स्वकर्मफलभोक्तारः, सर्वे जगति जन्तवः । अयं हि निश्चयनयो, यद्यप्यस्ति जिनोदितः ॥१३६॥ तथापि व्यवहारोऽयं, यो हेतुः सुखदुःखयोः । स एव क्रियते लोकैर्भाजनं गुणदोषयोः ॥१३७॥ स्वकर्मपरिणामेन, जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्, पुत्री मे दुःखभाजनम् ॥१३८॥ ऊचे च सचिवाऽनर्थमकार्षमहमीदृशम् । नादास्यं चेदहं पुत्र, कुष्ठी न स्यात्सुतोऽपि ते ॥ १३९ ॥ अमात्योऽप्यब्रवीत्स्वामिन् ! हितं कार्यं प्रकुर्वताम् । को दोषो भवतामत्र ?, दोषो मत्कर्मणां पुनः || १४०|| अथोत्थाय गतो मन्त्री, सा तु त्रैलोक्यसुन्दरी । इष्टाप्यनिष्टा सञ्जाता, राज्ञः परिजनस्य च ॥ १४१ ॥
Sibya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org