________________
२०० • मङ्गलकलशकथानकम्
ततश्चानुमतः पित्रा, कलाचार्यस्य सन्निधौ । कलाभ्यासं चकारासौ, स्वकीय सदनान्तिके ॥ १२०॥ इतश्च मन्त्रिणा तेन रात्रौ मङ्गलवेशभृत् । प्रेषितो वासभुवने, वधूपान्ते सुतो निजः ॥ १२१ ॥ शय्यारूढं च तं दृष्ट्वा, दध्यौ त्रैलोक्यसुन्दरी । कोऽयं कुष्ठाभिभूताङ्गः, समायातो ममान्तिके ? ॥१२२॥ करस्पर्शमथो कर्तुमुद्यतेऽस्मिन् झटित्यपि । सा शय्यायाः समुत्थाय, निर्ययौ भुवनाद्बहिः ॥ १२३ ॥ दासीभिर्भणिता किं नु स्वामिन्यसि ससंभ्रमा ? | सावदद् देवतारुपो, गतः क्वापि स मे पतिः ||१२४|| प्रत्यूचुस्ता इदानीं स, प्रविष्टोऽत्र पतिस्तव । साब्रवीन्नास्त्यसावत्र, कुष्ठी कोऽपि स विद्यते ॥ १२५ ॥ दासी मध्ये ततः सुप्ता, तामतीत्य विभावरीं । त्रैलोक्यसुन्दरी प्रातर्ययौ पितृगृहं निजं ॥ १२६॥ सुबुद्धिरपि दुर्बुद्धिः, सोऽथ मन्त्री महीपतेः । ययौ समिपमन्येद्युश्चिन्ताश्याममुखः किल ॥ १२७॥ कृत प्रणतिमासीनमथैनं पृथिवीपतिः । हर्षस्थाने विषादः किं तवेत्यूचे कृताग्रहः ॥ १२८ ॥ स जगाद महाराज !, विचित्रा कर्मणां गतिः । अस्माकं मन्दभाग्यानामागता विपदोऽधुना ॥ १२९|| चिन्तयत्यन्यथा जीवो, हर्षपूरितमानसः । विधिस्त्वेष महावैरी, कुरुते कार्यमन्यथा ॥ १३० ॥
Stay
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org