________________
श्रीराजवल्लभोपाध्यायविरचितम् • १९९ इतश्च पितरौ तस्य, तमन्वेष्य विलप्य च । बहुधा बहुभिर्घत्रैर्गतशोको बभूवतुः ॥१०९॥ गृहाभिमुखमायान्तं, रथारूढं विलोक्य तम् । जगादाथाऽपरिज्ञाय, जनन्यस्य ससम्भ्रमम् ।।११०।। प्रेर्यते गृहमध्येन, राजपुत्र ! कथं रथः ? । कर्तास्यभिनवं मार्ग, किं त्वं त्यक्त्वा पुरातनम् ? ।।१११।। इत्थं निषिध्यमानेऽपि, न यावद् विरराम सः । आचख्यौ श्रेष्ठिनस्तावत्, श्रेष्ठिन्याकुलिताशया ॥११२।। श्रेष्ठ्यप्यस्य निषेधार्थं, गृहाद् यावन्निरीयिवान् । तावद् रथात्समुत्तीर्य, पितुर्पादौ ननाम सः ॥११३।। उपलक्ष्य ततस्ताभ्यामाश्लिष्टस्तनयो निजः । सद्यः प्रादुर्भवद्धर्षाश्रुपूरप्लावितेक्षणं ॥११४॥ पप्रच्छ चोपविष्टोऽसौ, वत्सद्धिः कुत ईदृशी ? । क्व च कालमियन्तं त्वं, स्थितोऽसि ? वद नन्दन ! ? ॥११५।। ततश्चात्मकथा तेन, पितुरग्रे निवेदिता । वाक्श्रुत्यपहारादि-स्वस्थानागमनावधिः ॥११६।। अहो पुत्रस्य सौभाग्यमहो पुत्रस्य दक्षता । अहो धैर्यमहो भाग्यमिति प्राशंसतामिमौ ॥११७|| ततः प्राकारसंयुक्तं, स स्वं गेहमकारयत् । अश्वानां रक्षणार्थं च, मन्दुरादिनियन्त्रणम् ॥११८।। सोऽन्येार्जनकं स्माह, मम तात ! कलागमः । न्यूनोऽस्त्यद्यापि सपूर्णं, करिष्यामि त्वदाज्ञया ।११९।।
SYAQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org