________________
___ १९८ • मङ्गलकलशकथानकम् उज्जयिन्या नगर्याश्चेन्नीरमास्वाद्यतेऽमलम् । तदा तृप्तिर्भवेन्नूनं, मोदकेष्वशितेष्वपि ॥९८।। तत् श्रुत्वा राजपुत्री सा, दध्यावाकुलचेतसा । अहो ! अघटमानं किं, वाक्यमेषः प्रजल्पति ? ॥९९।। मातुलस्य गृहं नूनमथावन्त्यां भविष्यति । अस्य मे स्वामिनस्तेन, स्मृतिमागादिदं खलु ।।१००|| ततश्च निजहस्तेन, मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै, ताम्बूलं दत्तवत्यसौ ॥१०१।। सन्ध्याकाले पुनर्मन्त्रिमानुषैः प्रेरितोऽथ सः । त्रैलोक्यसुन्दरीमेवमूचे मतिमतां वरः ॥१०२।। गमिष्यामि पुनर्देहचिन्तायामुदरार्तिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥१०३।। निरगात्स ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः, क्वास्ति तद् वस्तु मामकम् ? ॥१०४।। तैश्च तद् दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । ततः सारतरं वस्तु, निक्षिप्याथ रथे वरे ॥१०५।। तस्मिंश्च योजयित्वाश्वांश्चतुरः पृष्ठतस्तथा । बध्वैकं वस्तु मुक्त्वा च, तत्रैव सोऽचलत्पुरः ॥१०६।। पृष्टाश्चानेन ते ग्रामा, उज्जयिन्यध्वगाश्च ये । मनुष्याणां ततस्तेऽपि, जगुस्तं नामपूर्वकम् ।।१०७।। ततो रथधिरूढोऽसौ, तेन मार्गेण बुद्धिमान् । स्तौकैरेव दिनैः प्राप्तस्तामेव नगरी निजाम् ॥१०८।।
Oice
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org