________________
श्रीराजवल्लभोपाध्यायविरचितम् • १९७ प्रथमे मङ्गले राजा, चारु वस्त्राण्यनेकशः । सुवर्णाभरणादीनि, वराय द्वितये ददौ ॥८७।। तृतीये मणिरत्नादि, चतुर्थे च रथादिकम् । जायापत्योस्तयोरिति, जज्ञे पाणिग्रहोत्सवः ।।८८।। वरः समाप्तेऽप्युद्वाहे, वधूहस्तं न मुञ्चति । उवाच नृपतिस्तं च, वत्स ! यच्छामि किं नु ते ? ॥८९।। ततश्च याचितं तेन, जात्यघोटकपञ्चकम् । तत् तस्मै शीघ्रमेवासौ, प्रददौ प्रीतमानसः ॥१०॥ वाद्यमाने ततस्तूर्ये, स्फुरद्धवलमङ्गले । मन्त्रिणा स्वगृहं निन्ये, समं वद्ध्वा स मङ्गलः ॥९१।। तत्रामात्यगृहजनश्छन्नं छन्नमभाषत । कथं निर्वास्यतेऽद्यापि, नायं वैदेशिको नरः ? ॥९२।। त्रैलोक्यसुन्दरी साथ, चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत्क्षणं ॥९३।। ततः क्षणान्तरेणासौ, देहचिन्तार्थमुत्थितः । जलपात्रं गृहीत्वाशु, तदनु प्राचलच्च सा ॥९४।। कृतायामपि तस्यां च, शून्यचित्तं रह:स्थितम् । उवाच प्रेयसी कान्त ! बाधते त्वां क्षुधा नु किम् ? ॥९५।। आमेति भणितं तेन, दासी हस्तेन मोदकान् । आनाय्य स्वगृहात् तस्मै, ददौ त्रैलोक्यसुन्दरी ॥९६।। भुक्तेषु तेषु पानीयं, पिबता तेन भाषितं । अहो ! रम्यतरा एते, मोदकाः सिंहकेशराः ॥९७||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org