________________
१९६ • मङ्गलकलशकथानकम् मन्त्र्यूचे चेन्न कर्मेदं, त्वं करिष्यसि दुर्मते ! । तदा त्वां निजहस्तेन, मारयिष्यामि निश्चितम् ॥७६।। एवं निस्त्रिंशमाकृष्य, भणितोऽपि सुबुद्धिना । अकृत्यं नानुमेने तत्, स कुलीनशिरोमणिः ॥७७।। प्रधानपुरुषैर्मन्त्री, निषिद्धस्तस्य मारणात् । अभाणि सोऽपि मन्यस्व, भद्र ! त्वं मन्त्रिणो वचः ।।७८।। ततोऽसौ चिन्तयामास, भवितव्यमिदं रवलु । अन्यथोज्जयिनी क्वासौ, ममेहागमनं क्व च ? ॥७९।। इदमाकाशवाचापि, दैवत्या कथितं तदा । तत्करोम्यहमप्येवं, यद् भाव्यं तद् भवत्वहो ॥८०॥ विचिन्त्यैवं पुनः स्माह, मङ्गलो मन्त्रिणं प्रति । यद्यवश्यमिदं कार्य, मया कर्तव्यमेव तत् ॥८१।। तदाहमपि व: पार्वे, नाथ ! नाथामि सर्वथा । मह्यं ददाति यद् राजा, वस्तुजातं ममैव तत् ॥८२।। स्थापनीयं च तत्सर्वमुज्जयिन्या पुरोऽध्वनि । एवमस्त्विति तद् वाक्यं, मेने मन्त्र्यपि बुद्धिमान् ।।८३।। समासन्ने ततो लग्ने, हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पार्वे, वस्त्राभरणभूषितः ॥८४।। त्रैलोक्यसुन्दरी साथ, दृष्ट्वा तं मन्मथोपमम् । अमंस्त तद्वरप्राप्त्या, कृतार्थं स्वं मनस्विनी ।।८५।। ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्वेर्धमाते मङ्गलानि तौ ॥८६॥
OISIO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org