________________
श्रीराजवल्लभोपाध्यायविरचितम् • १९५
गोपयित्वातियत्नेन, प्रभातसमयेऽमुना । अर्पितोऽमात्यवर्यस्य, गृहे नीत्वा सगौरवम् ॥६५॥
भोजनाच्छादनप्रायैरमात्योऽप्यस्य गौरवम् । चकार सदनस्यान्तर्गोपनं च दिवानिशं ॥ ६६ ॥ ततोऽसौ चिन्तयामास, किमयं मम सत्क्रियाम् । कुरूते ? च तथैवं मां, यत्नाद् रक्षति मन्दिरे ॥६७॥ पप्रच्छ सोऽन्यदामात्यं तात ! वैदेशिकस्य मे । सन्मानं किमिदं हन्त ! भवता क्रियते अधिकम् ? ||६८|| किं नामैषा पुरी ? को वा, देश: ? को वाऽत्रभूपतिः ? । तन्मे सत्यं समाख्याहि, विस्मयोऽत्र प्रवर्तते ॥ ६९ ॥
अमात्योऽप्यब्रवीच्चम्पानाम्नीयं नगरी वरा । अङ्गाभिधानो देशोऽयं, राजात्र सुरसुन्दरः ॥७०॥ मन्त्री सुबुद्धिनामाहं, माननीयो महत्तमः । मयानीतोऽसि वत्स ! त्वं, कारणेन गरीयसा ॥७१ || त्रेलोक्यसुन्दरी नाम्ना, राज्ञः पुत्री विवाहाय । सा दत्ता मम पुत्राय, राज्ञा कुष्ठि परं हि सः ॥ ७२ ॥ परिणीय त्वया भद्र !, विधिना सा नृपाङ्गजा । दातव्या मम पुत्राय, तदर्थं त्वामिहानयम् ||७३|| तत्श्रुत्वा मङ्गलोऽवोचदकृत्यं किं करोष्यदः ? । क्व सा रुपवती बाला ? निन्द्यरोगी क्व ते सुतः ? ||७४|| नेदं कार्यं करिष्यामि कथञ्चिदपि निष्ठुरम् ।
कूपे क्षिप्त्वा जनं मुग्धं, वरत्राकर्तनोपमम् ॥७५॥
CbYaq
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org