________________
१९४ • मङ्गलकलशकथानकम् तत् श्रुत्वा विस्मितः सोऽयं, किमेतदिति संभ्रामात् । तातस्य कथयिष्यामीतिध्यायन् सदनं ययौ ॥५४॥ गृहं गतस्य सा वाणी, विस्मृता तस्य दैवती । द्वितियदिवसेऽप्येवं, श्रुत्वा सोऽथ व्यचिन्तयत् ॥५५।। अहो ! अद्यापि सा वाणी, श्रुता या ह्यो मयाम्बरे । तदद्य सदनं प्राप्तः, कथयिष्याम्यहं पितुः ॥५६।। चिन्तयतीत्यसौ यावत् तावदुत्पाट्य वात्यया । नीतो दूरतरारण्ये, चम्पापुर्याः समीपगे ॥५७।। भयभ्रान्तस्तृषाक्रान्तः, श्रान्तस्तत्र स बालकः । मानसाख्यसरस्तुल्यं, ददर्शकं सरोवरम् ।।५८।। तत्र वस्त्राञ्चलात्पूतं, पयः पीत्वातिशीतलम् । तत्सेतुस्कन्धमारूढं, स शिश्राय वद्रुमम् ॥५९।। तदा चास्तमितो भानुर्विपदि पतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः ॥६०|| कृत्वा दर्भतुणै रज्जू, तया रज्ज्वा च तं द्रुमम् । समारूढो ददर्शासौ, ज्वलन्तमनलं क्वचित् ।।६१।। ततो वटात् समुत्तीर्य, स भीतः शीतविद्रुतः । हुताशनानुसारेण, चम्पापुर्या ययौ बहिः ॥६२।। ततः पार्वेऽश्वपालानां, कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥६३।। तावत् तेन नरेणैत्य, पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः, कृतश्च निरुपद्रवः ॥६४।।
tova Q
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org