________________
श्रीराजवल्लभोपाध्यायविरचितम् • १९३ देव्यूचे नान्यथाकर्तुं, नृणां कर्म पुराकृतम् । दैवतैरपि शक्येत, वृथेयं प्रार्थना तव ॥४३।। मन्त्री प्रोवाच यद्येवं, तदन्यमपि पुरुषम् । तदाकारं सुरुपं च, कुतोऽप्यानीय मेऽर्पय ॥४४॥ तेनोद्वाह्य महाराजपुत्रीं कमललोचनाम् । अर्पयिष्यामि पुत्रस्य, करिष्येऽस्य यथोचितम् ।।४५।। देवतोचे पुरीद्वारे, वाजिरक्षकसन्निधौ । शीतव्यथानिरासार्थमग्निसेवापरो हि यः ॥४६।। कुतोऽप्यानीय मयका, मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः, पश्चात्कुर्या यथोचितम् ॥४७।। इत्युक्त्वान्तर्दधे देवी, हृष्टोऽथ सचिवेश्वरः । सर्वां विवाहसामग्री, प्रगुणीकुरते स्म सः ॥४८।। अश्वपालनरं छन्नमाकार्य निजकं ततः । तस्मै निवेदयित्वा च, सर्वं वृत्तान्तमादितः ॥४९।। इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकोऽसौ हि, समर्यो मेऽविलम्बत: ॥५०॥ तं श्रेष्ठिनन्दनं तस्या, वरं विज्ञाय भाविनम् । उज्जयिन्यां ययौ पुर्यां, मन्त्रिणः कुलदेवता ॥५१॥ अन्तरिक्षस्थितोवाच, सा चैवं तस्य शृण्वतः । पुष्पाण्यानीय चारामाद्गच्छतो निजवेश्मनि ।।५२।। स एष बालको याति, पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥५३।।
swag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org