________________
१९२ • मङ्गलकलशकथानकम् ऊचे च प्रेयसी राजा, वराहेयं सुताऽभवत् । दातव्या ब्रुत तत्कस्मै, मातुरत्र प्रधानता ॥३२॥ राज्यवगयमास्माकं, जीवितादपि वल्लभा । नालं धर्तुं वयं प्राणान्, क्षणमप्यनया विना ॥३३।। दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय ! । प्रत्यहं नयनान्दकारिणी दृश्यते यथा ॥३४॥ ततो राज्ञा समाहूय, सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता, त्वत्सुतायात्मनन्दिनी ॥३५।। अमात्योऽप्यब्रवीद् देव !, किमयुक्तं ब्रवीष्यदः ? । कस्मैचिद् राजपुत्राय, दातुं कन्या तवोचिता ॥३६।। राजोचे तं त्वया वाच्यमित्यर्थे किञ्चनापि न । दत्ता त्वत्सूनवे चेयं, पुत्री त्रैलोक्यसुन्दरी ॥३७।। अथ चिन्तातुरो मन्त्रि, गृहे गत्वा व्यचिन्तयत् । हा व्याघ्रदुस्तटीन्याये, पतितोऽस्मि करोमि किम् ? ॥३८॥ रति-रम्भोपमाकारा, राज्ञः पुत्री सुतस्तु मे । कुष्ठी तदेतयोर्योगं, कथं जानन् करोम्यहम् ? ॥३९।। अथवायं मयोपायो, लब्धो यत्कुलदेवताम् । आराध्य साधयिष्यामि, सर्वमात्मसमीहितम् ॥४०॥ सोऽथ ह्याराधयामास, विधिना कुलदेवताम् । उवाच सापि प्रत्यक्षीभूय मन्त्रिन् ! स्मृतास्मि किम् ? ॥४१।। मन्त्र्यूचे त्वं स्वयं वेत्सि, सर्वं मे दुःखकारणम् । तथा कुरु यथा पुत्रो, नीरोगाङ्गो भवेन्मम ॥४२।।
ASFAQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org