________________
श्रीराजवल्लभोपाध्यायविरचितम् • १९१ ज्ञात्वा च श्रेष्टिपुत्रं तं, तस्मै सोऽपि ददौ मुदा । नारङ्गदाडिमादीनि, सुस्वादूनि फलान्यलम् ।।२१।। स्वगेहे पुनरागत्य, कुर्वतो जिनपूजनम् । श्रेष्ठिनोऽढौकयत्पुत्रः, पूजोपकरणं स्वयम् ॥२२॥ द्वितिये च दिने तेन, सादरं भणितः पिता । गच्छाम्यतः परं चाहं, पुष्पानयनहेतवे ।।२३।। निश्चिंतेनैव स्थातव्यं, त्वया तात ! निजे गृहे । अत्याग्रहेण तद्वाक्यमनुमेने पिताऽपि तत् ॥२४|| एवं च कुर्वतस्तस्य, धर्माभ्यासं तथान्तरा । कियत्यपि गते काले, यज्जातं तन्निशम्यताम् ।।२५।। अस्त्यत्र भरतक्षेत्रे, चम्पानाम महापुरी । अभूत् तत्र महाबाहुः पार्थिवः सुरसुन्दरः ।।२६।। राज्ञी गुणावली तस्य, सा निजोत्सङ्गवर्तिनीम् । दृष्ट्वा कल्पलतां स्वप्ने, पार्थिवाय न्यवेदयत् ।।२७।। राजा प्रोवाच हे देवि !, तव पुत्री भविष्यति । सर्व-लक्षण-सम्पूर्णा, सर्व-नारी-शिरोमणिः ॥२८॥ पूर्णे कालेऽथ चार्वङ्गी, सा देवी सुषुवे सुताम् । त्रेलोक्यसुन्दरी नाम, तस्याश्चक्रे महीपतिः ॥२९।। लावण्यरसमञ्जूषा, सौभाग्यरसनिम्नगा । बभूव यौवनं प्राप्ता, सा मूर्तेव सुरङ्गना ॥३०|| तां विलोक्याऽनवद्याङ्गी, दध्याविति धरापतिः । रमणः कोऽनुरुपोऽस्याः, सुताया मे भविष्यति ।।३१।।
DISRO
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org