________________
१९० • मङ्गलकलशकथानकम्
ततश्च देवपूजार्थं, पुष्पग्रहणहेतवे । आकार्यारामिकं तस्मै ददौ श्रेष्ठी धनं बहु ||१०|| स्वयं गत्वातदारामे, पुष्पाण्यानीय स प्रगे । गृहार्चामर्चयित्वा च, गच्छति स्म जनिलाये ॥११॥ तत्र नैषेधिकी-मुख्यान्, यथास्थानं दश त्रिकान् । स्थापयन् परया भक्त्या, विवधे चैत्यवन्दनम् ॥१२॥ ततः साधून्नमस्कृत्य, प्रत्याख्यानं विधाय च । अतिथीनां संविभागं, स चकार महामतिः ||१३|| अन्यदप्यखिलं धर्मकर्म शर्मनिबंधनम् । आह्निकं रात्रिकं चैव, धनदत्तो व्यधात्सुधीः ॥१४॥ अथ धर्म-प्रभावेण तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं, प्रत्यक्षीभूय साऽन्यदा ||१५| पुत्रे गर्भागते रात्रिशेषे श्रेष्ठिन्युदैक्षत । स्वप्ने हेममयं पूर्णं, कलशं मङ्गलावृत्तम् ॥१६॥ जातश्च समयेपुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश, इत्याख्यां तत्पिता ददौ ||१७|| कलायासपरः सोऽथाष्ट वर्ष प्रमितोऽन्यदा । तात ! त्वं कुत्र यासीति, पप्रच्छ पितरं निजम् ॥१८॥ सोऽवदद् वत्स ! गत्वाहमारामे प्रतिवासरम् । ततः पुष्पाणि चानीय, करोमि जिनपूजनम् ॥१९॥ ययौ पित्रा सहान्येद्युस्तत्र सोऽपि कुतूहली । आरामिकोऽवदत् कोऽयं, बालो नेत्रविलासकः ॥२०॥
PSYAQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org