SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ७. श्रीराजवल्लभोपाध्यायविरचितम् मङ्गलकलशकथानकम् ॥ उज्जयिन्यां महापुर्यां, वैरिसिंहो महपतिः । सोमचन्द्रा च तद्भार्या, धनदत्तश्च श्रेष्ठ्यभूत् ।।१।। धर्मार्थी सुविनीतात्मा, सत्यशीलदयान्वितः । गुरुदेवार्चने प्रीतः, स श्रेष्ठी धनदत्तकः ॥२॥ सत्यभामेति तद्भार्या, शीलालङ्कृतिशालिनी । पत्यौ प्रेमपरा किन्त्वपत्यभाण्डविवर्जिता ॥३॥ साऽन्यदा श्रेष्ठिनं पुत्रचिन्ताम्लानमुखाम्बुजम् । दृष्ट्वा पप्रच्छ हे नाथ ! किं ते दुःखस्य कारणम् ? ॥४|| श्रेष्ठिना च समाख्याते, तस्यैतस्मिन् यथास्थिते । श्रेष्ठिनी पुनरप्यूचे पर्याप्तं चिन्तयानया ॥५॥ धर्म एव भवेन्नृणा-मिहामुत्र सुखप्रदः । स एव सेवनीयो हि, विशेषेण सुखैषिणा ॥६॥ तत् त्वं देवगुरौ चापि, कुरु भक्ति यथोचिताम् । देहि दानं सुपात्रेभ्यः, पुस्तकानि च लेखय ।।७।। कुर्वत इति ते पुत्रो, भावी यदा तदा वरम् । भविता निर्मलश्चापि, परलोकोऽन्यथावयोः ।।८।। हृष्टः श्रेष्ठ्यप्युवाचैवं, प्रिये ! साधूदितं त्वया । सम्यगाराधितो धर्मो, भवेच्चिन्तामणिप्रभः ।।९।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy