________________
१८८ • मङ्गलकलशकथानकम् सख्याश्च दोषप्रतिपादनेन जज्ञे कलङ्को भवतः प्रियायाः । ईदृग्वचस्तस्य निशम्य सूरेस्तयोरभूत् प्राग्भवसंस्मृतिश्च ॥३१०|| स जातजातिस्मृतिरात्मपत्न्या समं समुत्थाय गुरून् विनम्य । आह स्म यावत् समुपैमि गत्वा तावद् भवद्भिः स्थितिरत्र कार्या ॥३११।। नैव प्रमादं नृपते ! विदध्या इतीरितेऽसौ गुरुभिः ससार । निवेश्य राज्ये तनयं विनीतं वैराग्यरङ्गात् तरसाऽऽससार ॥३१२।। पार्श्वे गुरूणां गरिमाचलानां दक्षः स दीक्षां विविधवत् प्रपेदे । त्रैलोक्यसुन्दर्यपि कुर्वतीव पतिव्रताभावमियं यथार्थम् ।।३१३।। क्षमां स्थिरामाश्रयतो नृपस्य तथास्य राज्येन बभूव शर्म । चारित्रलक्ष्मी प्रतिपद्य हृद्यां कषायकालुष्यजयाद् यथैव ।।३१४।। तपांसि तप्त्वा स सुदुस्तपानि निर्माय कन्दर्पमदर्पकं च । विहृत्य पृथ्वी च मुनिस्तयामा स्वर्लोकलक्ष्मीमुररीचकार ॥३१५।।
istag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org