________________
१८६ • मङ्गलकलशकथानकम् सिंहोऽपि गत्वा त्वरितं नृपाय प्रत्यर्पयामास स तं नृवेषम् । निशम्य तस्या वरलाभवृत्तं मुदान्वितस्तं प्रशशंस भूपः ।।२८८।। त्वमेव सिंहाखिलवैरिसिंह: परोपकारप्रवणस्त्वमेव ।। इति प्रशस्याङ्गविभूषणानि वासांसि चास्मै नृपतिर्व्यतारीत् ।।२८९।। अवाप्य चम्पाधिपतेर्निदेशं निवेद्य तं मालववासवस्य । स मङ्गलश्चम्पकपुष्पगौरश्चम्पां परीवारयुतः समागात् ।।२९०॥ प्रवेशितामुत्सवपूर्वमेतां समं प्रियेणोपगतां स पुत्रीम् । निरीक्ष्य राजा सचिवस्य तस्य दुश्चेष्टितं सत्यममंस्त सर्वम् ।।२९१।। सर्वस्वमादाय नरेश्वरस्तं समादिशद् वध्यमवन्ध्यकोपः । कुम्भस्तदाकर्ण्य तदैव गत्वा विज्ञप्य राजानममोचयत् तम् ॥२९२।। विमोचितस्तेन दयालुनासौ विसर्जितोऽगाद् द्रुतमन्यदेशम् । कस्यापि कुत्रापि कदाचनापि कुकर्म निर्माय न शर्मलाभः ।।२९३।। स यौवराज्यं नृपतेः प्रसन्नाल्लब्ध्वा सुखं वैषयिकं बभाज । तया समं पौरजनोपगीतां विस्तारयन् कीर्तिमिहेन्दुशुभ्राम् ॥२९४॥ अथावनीशं वनपालकोऽपि द्रुतं समागत्य समाजभाजम् । व्यजिज्ञपच्चारु मनोरमाख्ये वने यशोभद्रगुरुं समेतम् ।।२९५।। वितीर्य तस्मै परितुष्टिदानं गुरुं प्रणन्तुं निरगान्नरेन्द्रः । नत्वोपदेशं विनिशम्य राज्ये जामातरं न्यस्य ललौ स दीक्षाम् ।।२९६।। राज्यं समासाद्य तथा कथञ्चित् स पालयामास नृपः प्रजास्ताः । यथा कदाचित् सुरसुन्दरस्य मापस्य नास्मार्षुरपेतबाधाः ॥२९७।। त्रिवर्गमाराधयतो नृपस्य श्रीमङ्गलस्य श्रितमङ्गलस्य । नीत्या प्रजा रञ्जयतः प्रभूताः सम्वत्सरा जग्मुरमेयशक्तेः ।।२९८।।
Oice
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org