________________
श्रीमुनिभद्रसूरिविरचितम् • १८५ भोज्यैर्विचित्रैर्वसनैरनेकैरमानयच्छात्रजनं समस्तम् । यं मङ्गलेऽसौ विदधे विशेषं तेनैव जज्ञे स च साभ्यसूयः ।।२७७|| तांस्तीर्थयात्रोपगतानिवाऽयं संमान्य सर्वानपि भाषते स्म । आख्यानिकां कोऽपि भवत्सु मेऽग्रे निजानुभूतां सरसां ब्रवीतु ॥२७८।। विज्ञप्तिमाकर्ण्य नृपाङ्गजस्य गुरुर्जगौ तान् प्रति जल्पतेति । ते साभ्यसूया जगदुः स एव वक्ता कथां यत्र कृतो विशेषः ।।२७९।। अथ स्वयं मङ्गलकुम्भ एतां बुद्धया विबुध्यात्मवधूमधूतः । विवाहमुख्यं सकलं स्ववृत्तं सिंहादिकानां पुरतो बभाण ॥२८०|| गृह्णीत गृह्णीत जवेन चैनमित्युद्धतं जल्पति राजपुत्रे । छात्रैः समं पण्डित एव नष्टः स काकनाशं कलितात्मभीतिः ॥२८१॥ भद्रासनेऽमुं विनिवेश्य सान्द्रभद्रार्थिनी राजसुताह सा स्म । त्वया कथं नाथ ! तदा विमुक्ता मुक्ताऽग्रहारा ननु मन्दभाग्या ॥२८२।। विना त्वया नाथ ! यदन्वभूवं दुःखं प्रवक्तुं न तदस्मि शक्ता । द्विजिह्वतादोषपरिष्कृतः स प्रवक्तु किं नाम सहस्रजिह्वः ? ||२८३।। इति स्वदुःखप्रतिपत्तिपूर्वं स्वाभाविकं वेषमियं प्रपद्य । प्रत्यर्प्य सैन्यैः सह तं नृवेषं संमान्य सिंहं व्यसृजद् गृहाय ।।२८४।। पित्रोः पदद्वन्द्वमनुक्रमेण प्राणीनमत्तामुपदान्वितां सः । इयं वधूर्वो नमतीति जल्पन् भक्त्योपगूढः स्वयमप्यनंसीत् ।।२८५।। वधूं समालोक्य विधूतदोषां श्वश्रूः परं तोषमवाप साऽपि । योग्यास्य जाया भवितेति चिन्ता तदैव तस्या हृदयं मुमोच ।।२८६।। श्वश्रू समीक्ष्य श्वशुरं च लक्ष्मी निकेतनं चापि परिच्छदं च । कृतार्थयामास वधूः स्वमेषा स्वभाग्यसंरम्भविवर्णनेन ।।२८७||
CIS AQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org