________________
१८४ • मङ्गलकलशकथानकम् समुत्सुकं तन्मन एव पूर्वं सिंहस्ततः क्षोणिभुजा प्रणुन्नः । ततोऽपि काम: प्रगुणीकृतेषुस्ततो वरं सा लभतां न किं स्वम् ? ॥२६६।। वीरैरनेकैरनुगम्यमानां प्रस्थाप्य तां भूमिपतिर्गभीरः । कारीषसंछन्नकृशानुवच्च प्रच्छन्नकोपः सचिवाधमेऽस्थात् ।।२६७|| केनापि नालक्षि पथि प्रयान्ती स्त्रीत्वेन सा नृनपि वार्तयन्ती । नृपेण दत्तं खलु धारयन्ती पुंवेषमक्षाण्युपवासयन्ती ॥२६८।। समेति सूनुः सुरसुन्दरस्य त्यागी गुणी क्षोणिपुरन्दरस्य । इति श्रुतिग्राहितया जनौघा लात्वोपदां द्रष्टुमुपागमंस्ताम् ॥२६९।। अवन्तिदेशाधिपतिर्नरेन्द्रः पञ्चालदेशाधिपतेः कुमारम् । समाव्रजन्तं विनिशम्य चारैरुपाचरत् संमुखमानदानैः ॥२७०।। प्रदापिते मालववासवेनावासे नरेन्द्रस्य सुतः स तस्थौ । दौर्विध्यविच्छेदकराणि यच्छन् द्विजोत्तमानां द्रविणानि कामम् ।।२७१।। सरोवरे वारिविसारिपानहेतोः प्रयातः पितृनामवर्णैः । अङ्काञ्चितान् पञ्च तुरङ्गमांस्तान् स एकदाऽपश्यददृश्यदोषान् ।।२७२।। एते तुरङ्गाः प्रविशन्ति यत्र तत्सद्म सद्मप्रभुनाम मत्वा । ब्रूतैत्य मह्यं झटिति स्वभृत्यानित्यादिशत् सिंहमुखेन सोऽपि ॥२७३।। तथाकृते तैः क्षितिपालसूनुर्वितत्य सिंहेन समं विचारम् । निमन्त्रयामास समं समग्रैश्छात्रैरुपाध्यायमधीयमानैः ॥२७४।। समागतं तं समवेक्ष्य सोऽपि च्छात्रेषु सर्वेष्वपि भासमानम् । नरेन्द्रपुत्रः परमं प्रमोदं योगीव लेभे प्रतिभासमानम् ।।२७५।। वणिक्कुमारोऽपि कुमारधामा कुमारमालोक्य विसिष्मिये तम् । इयं किमाकल्पविपर्ययेण प्रिया मदीया समुपागता सा ॥२७६।।
Diree
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org