________________
श्रीमुनिभद्रसूरिविरचितम् • १८३ अथावनीवासवनन्दनी सा त्रैलोक्यसुन्दर्यपि सुप्रबुद्धा । पार्वे शयानं सचिवस्य पुत्रं विलोक्य वैलक्ष्यविलक्षणाऽऽस्या ॥२५५।।
अपास्य तं दुष्टरुजाभिभूतं भूतार्त्तवद् वासगृहान्निरीय । दासीव दासीजनसन्निधाने निशां कथञ्चिद् गमयाम्बभूव ॥२५६।। युग्मम् ।। सेवागतो मन्त्र्यपि भूमिपालं व्यजिज्ञपद् विज्ञतमः प्रभाते । तादृक् सुरूपोऽपि सुतोऽभवन्मे त्वदङ्गजासङ्गवशेन रुग्णः ।।२५७।। तत् कं प्रतीकारमहं प्रकुर्वे ? कस्याग्रतो वच्म्यसमाधिमेतम् ? । श्रुत्वेति देवीमनुजेश्वराभ्यां निवारिता दृष्टिपथात् क्रुधा सा ॥२५८।। राजन्यसिंहं निजगाद सिंहं विज्ञापनायै जनकस्य राज्ञः । क्रुद्धस्य नेतुः पुरतः सुतेन गन्तुं न शक्यं सुतया न चापि ॥२५९।। सिंहस्य विज्ञापनयैव राज्ञाऽऽहूता सुता व्यज्ञपयत् स्ववाचा । पुंवेषमाश्रित्य तवाज्ञयेत्वावन्ती च जामातरमानयामि ।।२६०।। आकस्मिकी कुष्ठरुजा शरीरे ज्वरादिवन्नैव भवेन्नराणाम् । शापेन कस्यापि मुनेर्यदि स्यात् तथापि पूतिव्रणसंश्रिता न ॥२६१।। दुर्वृत्तमेतत्सचिवस्य सर्वं कियच्चिरं स्थास्यति संवृतं वा । अन्तर्दधाने न हि पुण्यपापे सुगन्धदुर्गन्धवदावृत्ते च ॥२६२।। पुण्यैर्ममायं घटितश्चिरत्नैस्तेषां द्विषत्त्वं सहसा कथं स्यात् ? । दिगीशवृन्दांशभवः प्रभुर्वा स्वयं विचारं कुरुतां विचारम् ।।२६३।। नरेन्द्र ! तन्मां विसृज प्रसादं सृज त्यजाकारणकोपमेतम् । पश्चादपि क्रोधफलं मयि त्वं प्रभो ! न किं दर्शयितुं प्रभुः स्याः ? ।।२६४।। आज्ञापितस्तत्क्षणमेव राज्ञा प्रदाय शिक्षां द्रविणं चंगुं च । प्रत्यर्थिदन्तावलभेदसिंहस्तया समं प्रास्थित सोऽपि सिंहः ॥२६५।।
tovao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org