SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिभद्रसूरिविरचितम् • १७९ विमुञ्च सन्तापकरं प्रकोपं कोशे कृपाणं क्षिप मन्त्रिराज ! | भवादृशा बालवधाय खड्गं किमाददाना न खलु पन्ते ? || २११ || अवोचदज्ञानवशादबद्धं बालः प्रवालच्छविदन्तवासाः । विदन् प्रभूणां पुरतः क एवं वदेत्पधत्ते प्रतिपद्धि दोषान् ॥२१२॥ तावत्प्रतीक्षस्व विबोधयामो यावद् वयं बालमबालबुद्धिम् । इतीरितस्तैः प्रशशाम मन्त्री सामप्रसाध्या ह्यधिपा भवन्ति ॥ २१३ || रक्षानियुक्तास्तमबूबुधंस्ते तथा यथामंस्त स तद्वचस्तत् । ऊचे च तन्मे सुमते ! प्रदेयं प्राप्नोमि यत्पाणिविमोचनेऽहम् ॥ २१४|| आमेति तस्य प्रतिपद्य सारव्याहारमाकारपराद्धमूर्तेः । वैवाहिकं धीसख एव सर्वं विधापयामास विधि विधिज्ञः ॥ २१५ ॥ प्रवाद्यमानेषु विचित्रभङ्ग्या महामृदङ्गेषु कलस्वनेषु । मार्दङ्गिकैर्द्रव्यमुपाददानैरुत्तार्यमाणं स्वसुवासिनीभिः || २१६ || योषासु भूषासुमनोहरासु प्रकुर्वतीषु प्रवरासु गीतम् । अभ्यज्य तैलेन सुगन्धिना तं हारिद्रचूर्णोपचितेन तेन ॥२१७|| स्ववृत्तसन्तोषितकान्तपुत्रप्रपूर्यमाणानुपमाभिलाषाः । अम्भोभिरुष्णैरवदातरूपैरसिस्नपंस्तं प्रवरा रमण्यः || २१८|| त्रिभिर्वि० ॥ विलेपनं काश्चन चक्रुर कर्पूरसम्भाजितचन्दनेन । ललाम काश्चिच्च ललाटपट्टे गोरोचनारोचितकुङ्कमेन ॥ २१९|| सदा विवाहव्यवहारविज्ञाः काश्चिद् बबन्धुर्वलयं प्रकोष्ठे । ताम्बूलमाराद् घनसारमिश्रं व्यश्राणयन् काश्चन भव्यभावाः ॥२२०॥ कपोलदेशे मृगनाभिपत्रभङ्गीं व्यधुः काश्चन रागसङ्गात् । वासांसि काश्चित्परिधाप्य नव्यान्यदीदृशन्दर्पणमिद्धदर्पाः || २२१ || 959 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004056
Book TitleMangal Kalash Charitra Sangraha
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherVijay Kanaksuri Prachin Granthmala
Publication Year2013
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy