________________
१७८ • मङ्गलकलशकथानकम् स स्थानपालैर्बहु तप्यमानः शीर्षे प्रहारैरभिताडितश्च । एकेन तन्मन्त्रिवचो विचिन्त्याऽपसार्य तेभ्यो विजनेऽथ निन्ये ।।२००|| क्षणं कृशानावकृशाशयस्तं स तापयित्वा सचिवाय मछु । समर्पयामास कुमाररूपं कुमारमालोक्य मुदेऽदित स्वम् ॥२०१।। अपूपुषत् तं सचिवोऽप्यजस्रं स्निग्धान्नपानैः स्वकुमारवच्च । प्रच्छन्नमाधाय निधानवत् स देयार्थवत्प्राहरिकैररक्षत् ॥२०२।। स एकदाऽपृच्छदमात्यमेवं वैदेशिकस्यापि विधीयते मे । किं गौरवं ? तात ! पुरी च केयं ? किं नामधेयस्त्वमिह प्रसिद्धः ? ॥२०३।। मन्त्र्यप्यभाषिष्ट विशिष्टबुद्धिः स्वार्थं न ते गौरवमादधेऽहम् । चम्पापुरीयं प्रथिता जगत्यां तन्नाथमन्त्र्यऽस्म्यहमत्र वित्तः ॥२०४।। स्वार्थोऽपि कस्ते ? सचिवेति पृष्टस्तेन न्यगादीत्पुनरेव मन्त्री । निवेदयिष्यामि तवाऽपि मुग्ध ! स्वार्थं कदाचित् स्वमनोऽनुमत्या ॥२०५।। गतेषु घस्रेषु कियत्स्वमात्यं प्रस्तावमासाद्य स पृच्छति स्म । स्वार्थं तमाख्याहि ममानुवृत्त्येत्युक्तः स तेनाभिदधेऽभिसन्धिम् ।।२०६।। श्रुत्वा तदाकूतमुदारचेताः स निःश्वसन् दिक्करकोऽप्युवाच । आ ! युक्तिमुक्तं भवता किमुक्तं वचः कलङ्क रचयत् कुलस्य ॥२०७।। को नाम तत्कर्म विनिर्मिमीते भूतं न यत् क्वापि न भावि यच्च । सचेतनः कः परिणीय कन्यां प्रदातुमीहां तनुतां परस्मै ।।२०८।। तद्वाचमन्तर्विनिवेश्य मन्त्री च्छेत्स्यामि मूर्द्धानमिति ब्रुवाणः । पाणौ कृपाणं कलयन् स पापात् कृपापरैः प्राहरिकैय॑वारि ।।२०९।। देशे त्वदीये यदि वा कुलेऽस्मिन् प्रवृत्तिरेषा न तथापि मेऽर्हा । आमुष्मिकं वैहिकमीहमानः समाचरेत्क: प्रतिषिद्धमर्थम् ? ॥२१०।।
Disce
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org