________________
श्रीमुनिभद्रसूरिविरचितम् • १७७ कृत्वा तडागे सवनं श्रमार्त्तः स्वच्छानि शीतानि जलानि पीत्वा । आलम्ब्य दोर्त्यां च वटस्य पादांस्तस्योपरिष्टात् स समारुरोह ॥१८९।। युग्मम् ।। सूरस्तमालोक्य तदुग्रदु:खं करेष्वनेकेष्वपि सत्सु हर्तुम् । अपारयन्नस्तमहीध्रचूलामारुह्य वेगाज्जलधौ ममज्ज ॥१९०॥ न बन्धनं यस्य न कर्मपाश: किञ्चिन्न वा पञ्जरमस्ति यस्य । तनूपभोगत्यजनापरस्य स्थिरः स हंसः प्रतिपद्यते किम् ? ॥१९१।। निमित्तमात्रं पतने गुरुत्वं प्रोक्तं कणादेन मुनीश्वरेण । ग्रहेषु सर्वेष्वपि भास्करस्य व्यक्तं न तत्कि पतनं विधत्ताम् ? ॥१९२॥ सरोजिनीनाथदिनाधिनाथप्रभाधिनाथग्रहनाथमुख्यैः । विवर्णना यस्य बभूव शब्दैः स हास्तमेति स्थिरमाः ! परं किम् ? ॥१९३।। इदं कराणां स्फुरतां सहस्रं पुरस्कृतं यन्मयका पुरैव ।। उपेक्षतेऽस्मिन् समयेऽपि तन्मामिति क्रुधाऽऽरुण्यमधत्त योऽर्कः ॥१९४।। प्रवर्त्तमानेऽभ्युदयेऽसमाने ये स्वामिना केऽपि पुरस्क्रियन्ते । तं तेऽनुगच्छन्ति तथा हि यातः प्रभादिनौ भानुमता सहास्तम् ॥१९५।। सुतो यदीयः स यमः प्रसिद्धः पद्मापतेर्यः स्वयमेव चक्षुः । प्रभुर्ग्रहाणामपि यः समेषां हन्तास्तमेतीह स चेत्स्थिरं किम् ? ॥१९६।। तमस्ततौ विस्तृतिमाश्रितायामधःस्थितं श्वापदमेव किञ्चित् । व्यापादयिष्यत्यचिरेण मामित्यवेत्य सोऽस्थात् स्तिमितस्तथैव ॥१९७।। तथा कथञ्चित्प्रसृतं तमोऽपि दृश्यो न हंसोऽपि यथाजनिष्ट । भासामभावो हि तमोऽपि युक्तं प्रोक्तं कणादेन ततः कथञ्चित् ।।१९८।। विलोक्य सोऽथ ज्वलनज्वलन्तं न्यग्रोधभूमीरुहमुत्तरेण । हृष्यत्तनुः शीतविकम्पमानोऽवतीर्य तस्मात् तमियाय देशम् ।।१९९।।
svag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org