________________
१७६ • मङ्गलकलशकथानकम् न यद्वचोवर्त्मनि मानवानां महाकवीनामपि किञ्चनापि । चेत:पथे नापि कदापि धाता करोति लीलास्फुरणेन तच्च ।।१७८।। शुभोदयो वाऽप्यशुभोदयो वा स्याद्देहभाजां नियतेनियोगात् । न कोऽपि शक्नोत्यतिवर्तितुं तं कदाचन च्छायमिव स्वकीयम् ।।१७९।। अत्रान्तरे प्रादुरभूत्कुतश्चिद्वात्या हरन्ती विततं प्रकाशम् । रजोभिरान्ध्यं दिशती जनानां विलोचनान्त:पतनप्रगल्भैः ॥१८०|| स वात्ययोत्पाट्य तया कुमारः सुमार्थमिङ्गन्निजवाटिकायाम् । चम्पापुरीसन्निहिताटवीभूभागे क्षणाद्गन्ध इव व्यमोचि ॥१८१।। विभीषणं यत्र विनैव लङ्कां पश्यन्ति रामाकलितं जनौघाः । हरीश्वरो यत्कपिभिः परीत: क्वचित् क्वचित् खेलति निर्विषङ्कम् ।।१८२।। भीतिं दधाना इव सूरपादा विन्दन्ति यत्र प्रसरं न किञ्चित् । अभ्रंकषोर्वीरुहसन्ततीनां छायाच्छलस्थानतमःप्रपञ्चात् ।।१८३।। तस्मिन्नविज्ञातहरिविभागो बभ्राम पञ्चाननवत् स वीरः । विमार्गयन्मार्गमुपैतुकामो ग्रामं पुरं वा पृथुगोकुलं वा ॥१८४।। अथ व्यलोकिष्ट स पुण्यसारं कासारमाशाः परिपूरयन्तम् । समाव्रजत्पान्थपरम्पराणां कर्पूरसारैरिव वारिपूरैः ॥१८५।। अस्ताघभावं कलयन्तमुच्चैः सतां मनोवद् विततं समन्तात् । दैत्यारिवक्षःस्थलवद् दधानं पद्मानुरागं बहुसत्त्वनिष्ठम् ।।१८६।। चक्राचितं जीवनदानवित्तं राजाधिराजोन्नतपाणिवच्च । विष्वग्वृतं चारुविशालशालावल्या महापत्तनवत्सहंसम् ।।१८७।। त्रिभिर्विशे० । ग्रामीणपौरैः क्रयविक्रयाभ्यां चलद्भिराकीर्णमभीप्सिताभ्याम् । ग्रामस्य कस्याप्यथवा पुरस्य पन्थानमन्वेषयितुं प्रतीतम् ।।१८८।।
CAS@
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org