________________
श्रीमुनिभद्रसूरिविरचितम् • १७५ ततः प्रभाते सचिवः प्रहृष्यन् महाशयः पारणकं विधाय । आह्वाय मौहूर्तिकमादरेणान्वयुक्त लग्नं स्वहिते विलग्नः ॥१६७।। ज्योतिर्विदं दत्तविवाहलग्नं धनानि दत्त्वा वसनानि चापि । विसर्जयामास नृपस्य शिष्ट्या विवाहसामग्र्यमपि व्यधत्त ।।१६८|| यः कश्चिदागच्छति वाजिशालापावें कुमारः सुकुमारगात्रः । स्वरूपमारः प्रतिपत्तिसार: स मे समानीय समर्पणीयः ॥१६९।। प्रकुर्वतेदं भवता मदीयं प्रयोजनं निर्मितमेव सर्वम् । एकं समाहूय स वाजिशालाऽध्यक्षं समादिक्षदिति प्रसन्नम् ।।१७०।। युग्मम् । सा देवतापि प्रतिपन्ननिष्ठा गत्वोज्जयिन्यां सुखराजधान्याम् । व्योम्नि स्थिता तद्वनपार्श्वतोऽदः पुरोऽवदन् मङ्गलकुम्भकस्य ॥१७१।। अवक्रयेणैष कुमार एवोद्विवक्ष्यते राजसुतां स्वरूपाम् ।। इत्यन्तरिक्षे स वचो निशम्य व्यचिन्तयद् विस्मित एव चित्ते ।।१७२।। देवस्य कस्यापि वचः किमेतद् दैत्यस्य कस्याप्यथवा गभीरम् । विद्याधरस्याप्यनवद्यविद्याविद्योतमानाशयकस्य किंवा ? ॥१७३।। सिद्धस्य कस्यापि किमेतदाहोस्विच्चारणस्य व्रतचारिणः किम् ? । कार्यं निरालम्बनमेव न स्यान्नाकारणं किञ्चिदवेक्ष्यते हि ॥१७४।। परं न युक्तिव्यतिरिक्तभावात् स्वान्तं प्रतीतिं दधते ममात्र । निवेदयिष्यामि विशेषतोऽदस्तथापि पिने सदनं गतः सन् ॥१७५।। आदाय पुष्पाणि स पाणिना द्राक् समाययौ सद्मनि वाटिकायाः । कार्यस्य वैयग्र्यवशादमुष्य स्मृतेर्न तद्गोचरतामयासीत् ।।१७६।। अन्येधुरुधानममुष्य यातः श्रुतौ प्रयातं वचनं तदेव । अथाप्तसद्मा नियमेन वप्तुः पुरः प्रवक्ष्येऽद्भुतमेतदुग्रम् ॥१७७॥
ovato
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org