________________
१७४ • मङ्गलकलशकथानकम् इति प्रसादप्रमुखं मुखोक्तं निशम्य वाक्यं सचिवः स देव्याः । उत्थाय बद्धाञ्जलिसम्पुट: सन्नानन्दसम्पूर्णमना जगाद ॥१५६।। मत्पुत्रकायस्थितकुष्ठगन्धस्तव प्रसादाद् घनसारसारात् । देवि ! प्रयातु क्षयमिष्टसिद्धिप्रदानसम्पादनसिद्धिरूपे ! ॥१५७।। तदुक्तमाकर्ण्य सकर्णसेव्या देव्याऽऽह सा स्म स्मितपूर्वमेवम् । रोगक्षयं कर्तुमहं न शक्ता शक्ताऽपि पुत्रस्य तवादिभक्त ! ॥१५८।। सुरासुराधीशनतक्रमोऽपि विज्ञानसम्पत्तिविभूषितोऽपि । नैवाऽन्यथाकर्तुमलम्भविष्णुर्जिनोऽप्यभुक्त्वा निजकर्मजातम् ।।१५९।। उपार्जितं येन यदेव कर्म शुभाशुभं तेन तदेव भोग्यम् । किं नान्यथा पुत्रसुखेन वप्ता वस्तुः सुखेनैव सुतः सुखी वा ? ॥१६०।। एतत्परित्यज्य ततोऽपरं त्वं हृदा समालोच्य वरं वृणीष्व । नाऽस्वामितां स्वाम्यपि विन्दतेऽत्र प्रसाधयन् साध्यमहो ! स्वसाध्यम् ।।१६१।। ऊचे स यद्येव मतं कुमारं मान्ये ! समानीय समर्पयस्व । योऽवक्रयेणापि नरेन्द्रकन्यां विवाह्य मह्यं ददते प्रसह्य ॥१६२।। विज्ञापनां तस्य निवेश्य चित्तेऽभिधीयते देवतया तया स्म । त्वन्माननावासितमानसाऽहं सर्वं विधातास्मि तदेतदाशु ॥१६३।। अस्याः पुरो दूरत एव कोऽपि त्वन्मन्दुरापालतटस्थ एव । यो मन्दुरासन्निहितः कुमारः स्वरूपसन्तजितमाररूपः ।।१६४।। अताड्यजाड्यज्वरपीड्यमानः समेत्य सन्तापयते कृशानौ । आप्तेन गुप्तं रभसा तमानाय्योद्वाहये राजसुतां यथेच्छम् ॥१६५।। युग्मम् ।। तमेवमुक्त्वा कुलदेवताऽसौ तिरोदधे नम्रजनानुकम्प्रा । विधित्सवः कार्यमिहार्यचित्ता भृत्यं हि किं नाम न शिक्षयन्ते ? ॥१६६।।
ovata
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org