________________
श्रीमुनिभद्रसूरिविरचितम् • १७३ इत्याग्रहं भूमिपुरन्दरस्य सञ्चिन्त्य चित्ते सचिवः स्वचित्ते । समागमन्मन्दिरमिद्धऋद्धिप्रदानमाधानमयं सुखस्य ॥१४५।। बुद्धया न यत् सिद्धयति कार्यमीषद् वैषम्यमापन्नमनन्तशोऽपि । न पौरुषेणापि न भूरिदानैस्तत्रोचितार्चा कुलदेवतायाः ॥१४६।। इत्यन्तरुद्भाव्य विभावितात्मा निकेतनाभ्यन्तर एव देव्याः । निकेतने केतनराजिराजि स्नात्वा प्रविश्य प्रयतः स धीरः ॥१४७।। संस्नाप्य नीरैर्घनसारमित्रैर्मनोभिरच्छैरिव भावनाढ्यैः । कस्तूरिकाकुङ्कमचन्दनैस्तां विलिप्य मूर्ति कुलदेवतायाः ॥१४८।। मधुव्रताकर्षणसिद्धविद्यारूपाणि पुष्पाणि मनोहराणि । आरोप्य मूर्ति परितः पुरस्तान्निधान नैवेद्यमनेकधापि ॥१४९।। अदभ्रदभैर्मंगचर्विताग्रैरास्तीर्य संस्तारकमस्तदोषम् । भवत्प्रसादादचिरेण वाञ्छा भवत्वियं मे सफलेत्युदित्वा ॥१५०।। स्तुत्वा महाथैः स्तवनैरुदौर्नानाप्रकारैर्ललितैः सुवृत्तैः । अयं जनो देवि ! तव प्रसादे प्राप्ते समुत्थास्यति चेति जल्पन् ॥१५१।। स्वदेहसामर्थ्यमचिन्तयित्वा यावद्वरप्राप्तिसमानकालम् । आहारभङ्गीपरिहाररूपं कुर्वन्नखर्वं नियमं विगर्वः ॥१५२।। नवाम्बुदक्षालितशम्भुशैलावदातवासा विकसन्मुखश्रीः । सुष्वाप देवीचरणारविन्दद्वयाग्रतः शुद्धमनाः प्रशस्यः ॥१५३|| सप्तभिः कुलकम् । अथ प्रभापूरहतान्धकारा तद्ध्यानकाष्ठाचलितासना सा । निशावसाने विदितप्रभावा तुष्टा बभाषे कुलदेवता तम् ॥१५४॥ त्वया किमर्थं विहितं मदीयाऽनुध्यानमेतत्सचिवावतंस ! । उत्तिष्ठ वत्स ! स्वमनीषितं द्राङ्मदग्रतस्त्वं विनिवेदयस्व ॥१५५॥
loyag
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org