________________
१७२ • मङ्गलकलशकथानकम्
वित्तं ययोरेव समं जगत्यां कुलं ययोरेव समं प्रतीतम् । मैत्री तयोरेव तयोर्विवाहस्तयोर्विवादश्च निरूपितोऽस्ति ॥ १३४ ॥ स एव सम्बन्धविधिर्विधेयः सम्बन्धिता येन भवेत् प्रशस्या । निर्बन्धमापाद्य विधीयमानः सम्बन्ध एव प्रकरोति हास्यम् ॥१३५॥ ततो महाराज ! मनागपीदं न युक्तमेतद् भवताऽभ्यधायि । महीयसामातनुते महत्त्वं युक्त्यानुयुक्तं हि निरूप्यमाणम् ॥१३६॥ अपेक्षणीया न भवन्ति जातु क्षोणीश्वराणामपि सेवकास्ते । ये लोभमालम्ब्य समुत्सहन्ते कीर्तिं प्रभो ! च्छेत्तुमिह प्रसिद्धाम् ॥१३७॥ तदुक्तमाधाय हृदीति राजा विराजमानः सहजेन धाम्ना । जगाद मन्त्रिन् ! कथमस्मदीयं वाक्यं विसम्बन्धमुदाहरस्त्वम् ॥१३८ ।। स्वस्वामिसम्बन्धमभाषताऽयं दाक्षीसुतो व्याकरणं प्रकुर्वन् । आबालगोपालमहो ! प्रसिद्धः संस्मर्यतेऽमात्य ! स किं त्वया न ? ॥१३९॥ सम्बन्धमुद्द्योतयितुं पटिष्ठा षष्ठीविभक्तिः सुधियां मताऽस्ति । त्वं सेवकोऽहं प्रभुरस्मि तेऽपि प्रतीतमेवं तमुरीकुरुष्व ॥१४०॥ धनं ययोरेव समानमित्याद्यवाचि यत् तन्न विचारचारु । सहस्रपादस्य दिनेश्वरस्य किं पङ्गुना काश्यपिना न योग: ? || १४१|| न किं विभिन्नान्वययोर्भवेयुः प्रीतिश्रियः स्फीततमाः सुबुद्धे ! | तथा हि रामः प्रमनाः स्म दत्ते लङ्काधिपत्यं स विभीषणाय ॥ १४२ ॥ श्रीरामलङ्केश्वरर्योर्गरीयान् कुले विभिन्नेऽपि रणो बभूव ।
न मन्वते मानधनास्तु यद् वा किञ्चित् परित्यक्तविवेकभावाः || १४३ || प्रीतौ विरोधे च ततश्च पुण्यापुण्यप्रवृत्ती प्रथमं निदानम् । विचिन्त्य संबन्धविधानतो मे सम्बन्धिनां शेखरतां श्रय त्वम् ॥१४४॥
९ova9
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org