________________
श्रीमुनिभद्रसूरिविरचितम् • १७१
निश्चित्य चित्ते स्वयमित्यधीशः सभां पुनस्तां सहसा विसृज्य । अन्तःपुरं बालिकया तयाऽमा समागमद्वेत्रिनिरुद्धलोकम् ॥१२३|| प्रत्युज्जगामाऽथ गुणावली तं नृपावलीवन्द्यपदारविन्दम् । भद्रासने भद्रतया निविष्टं सा संनिविष्टा तमिदं बभाषे ॥ १२४॥ विवाहयोग्या भवतोऽस्ति पुत्री यशः पवित्रीकृतविश्वविश्व ! । दिगीश्वरांशाश्रितमूर्त्तिद्धा सर्वं स्वतो वेद महीमहेन्द्रः || १२५ || विज्ञापना यत् क्रियते तदत्राऽवधारय त्वं परमार्थमीश ! | अस्माकमस्यां मनसा प्रवृद्ध: प्रेमा समुज्जृम्भत एव कोऽपि ॥ १२६ || ततो महाराज ! मयि प्रसादं विधाय पुत्र प्रतिपादयेमाम् । वराय कस्मैचिदिदम्पुरीयवास्तव्यचूडामणये महेच्छ ! ॥ १२७॥ सङ्गच्छतेऽसौ श्वसुरस्य गेहादागत्य चागत्य यथाऽनिशं नः । अस्या वियोगं न वयं विसोढुं क्षमाः क्षमाखण्डल ! किञ्चिदेव ॥ १२८॥ राज्ञीभिरन्याभिरियं निजेच्छा राज्ञः पुरो विज्ञपयाम्बभूवे । को वा प्रभूणां न मनीषितं स्वं लब्धावकाशः प्रविकाशयेत ? ॥ १२९॥ विज्ञप्तिमासां हृदये निधाय क्ष्मावासवः संसदमध्युवास । पूषेव पूर्वाऽचलसानुदेशं सिंहासनं च श्रितवानतन्द्रः ॥ १३० ॥ सुबुद्धिनामानमथो सुबुद्धि मन्त्रीशमूचे वसुधासुधांशुः । सुतां मदीयां स्वसुतेन सार्द्धं विवाहयाऽस्मद्विनियोगतस्त्वम् ॥१३१॥ त्वग्दोषदुष्टं तनयं विभाव्य प्रोवाच मन्त्री नृपतिं प्रतीदम् । स्वामिन्ननौचित्यविपञ्चितं किं वचस्त्वयाऽवाचि विपश्चिताऽपि ? ॥१३२॥ क्व स्वर्णकायः क्व च राजिलोऽयं क्वैरावणः क्वैडकडिम्भ एषः । राजेन्द्रसंसेव्यपदः क्व देवस्त्वत्पादपद्मप्रणयी क्व चाऽहम् ॥१३३॥
Cibya
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org