________________
१७० • मङ्गलकलशकथानकम्
गुणावली तस्य नृपस्य देवी देवीव सौन्दर्यगुणेन याऽऽसीत् । त्रैलोक्यसुन्दर्यभिधा तदीया त्रैलोक्यसुन्दर्यभवत् तनूजा ॥ ११२ ॥ उत्सङ्गसंसङ्गिफलोपशोभां स्वप्ने समालोकत वीरुधं यत् । तमीतुरीयप्रहरेऽवशिष्टे तस्यां प्रसूर्गर्भमधिश्रयन्त्याम् ॥११३॥
अन्योऽन्यमास्फालयता तदस्या विज्जृम्भमाणेन कुचद्वयेन । कन्दर्पलीलोपवने कृशाङ्ग्या तद्यौवने किं फलितं न चापि ? ॥ ११४ ॥ तां यौवनोदभेदविशेषरम्यां माता समालोक्य मुदं बभार । विचिन्तयन्तीति सुधा किमेषा मत्कुक्षिरत्नाकरतो विजज्ञे ॥ ११५ ॥ अन्येद्युरभ्यज्य सहस्रपाकतैलेन कर्पूरसुगन्धिनैनाम् । श्रीखण्डवासैर्मसृणैः समन्तादुद्वर्त्य कोष्णैरभिषेच्य वाभिः ||११६ || सुवर्णरत्नाभरणैर्विचित्रैराचूलमापादनखं विभूष्य ।
दिव्यं दुकूलं परिधाप्य भव्यं शिरीषकोषम्रदिमाऽपघाति ॥ ११७ ॥ गुणावली तां प्रसरत्समग्रगुणावलीमालिजनेन सार्द्धम् । आस्थानमास्थाय कृतासनस्य प्रस्थापयामास नृपस्य पार्श्वम् ||११८।। त्रिभि० ।। भूपालदो: स्तम्भमवाप्य बाला सा शालभञ्जीव परं रराज | विलोचनेन्दीवरसन्ततीनां ज्योत्स्नेव यूनां ददती विकाशम् ॥ ११९ ॥ विलोक्य बालां सुरसुन्दरस्तां रूपस्वरूपेण जगज्जयन्तीम् । गुणैरशेषानपि रञ्जयन्तीं मनोभुवः शासनवैजयन्तीम् ॥१२०॥ दध्यौ नृपस्त्वेवमहो ! किमस्या वरो विधात्रा प्रवरो न सृष्टः । सृष्टो यदि स्यादवलोक्यतेऽत्र श्रोत्रातिथित्वं प्रतिपद्यते वा ॥१२१॥ युग्मम् । अतादृशाय प्रतिपाद्यते चेत्संपद्यते तद्वचनीयता मे । अस्यां हि सृष्टिः सुकृतैरियं तत्सम्पादयिष्यन्ति तमेव तानि ॥१२२॥
PSYTQ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org