________________
श्रीमुनिभद्रसूरिविरचितम् • १६९ आनन्द्यमानमनसं जननीं प्रकुर्व
न्नालिङ्गनेन वचनेन च सम्मतेन । यच्छन् फलानि वनपालसमर्पितानि
तानि स्वयं परिजनाय यथाक्रमेण ।।१०५।। पश्यन् जिनाधिपतिपूजनमेकतान
स्तं कञ्चन प्रमदमापदयं स्वतोऽपि । आराधयद्भिरसमं परमेश्वरं यः
सम्प्राप्यते नियमिभिर्नियतं कथञ्चित् ॥१०६।। विज्ञाप्य स्वमुखेन तातचरणान् कल्याणरुक्प्रीणितान् गत्वाऽऽराममुपानयत्स सततं पुष्पाणि मालाकृतः । अभ्यस्यत् सकलाः कलाश्च वयसोर्मध्यं जगाहे द्वयोः कुम्भाख्यो बहुशावभावयुवताप्रख्यातनाम्नोरयम् ॥१०७|| [शार्दूल०] आसीत् श्रीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः पट्टे श्रीगुणभद्रसूरिसुगुरुविद्यावतां सद्गुरुः । तच्छिष्येण कृतेऽत्र षोडशजिनाधीशस्य वृत्ते महाकाव्ये श्रीमुनिभद्रसूरिकविना सर्गस्तृतीयोऽगमत् ।।१०८।। [शार्दूल०] उपास्य यस्याङ्कमनाप्यमन्येविलोचनानामबलाजनानाम् । मृगो बभाराप्युपमानभावं शान्तिप्रभुर्वस्तनुतां स शर्म ॥१०९।। [उपजाति:] इतश्च चम्पानगरी प्रसिद्धा कलिङ्गदेशे विषयावतंसे । भोगीशितायामवलोक्य रम्यां भोगावती स्वामध एव चक्रे ॥११०।। न्यायक्रियासुन्दर एव तस्यां पृथ्वीपतिः सुन्दरनामधेयः । बभूव यस्याग्रत एव लक्ष्म्या पुरन्दरः किङ्कर इत्यमानि ।।१११।।
toxao
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org